________________
१५८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिके
___ स्यादेतत् , 'अस!' 'अतस्मिन्' 'अनेषः' इत्यादावप्यत्वसत्वस्मि. भादीनि न स्युः 'अतिसर्व' इत्यत्रेवोपसर्जनत्वात् । तथा चाब्राह्मण इ. त्यादेब्राह्मणभिन्न इत्यादिक्रमेण पूर्वपदार्थप्राधान्येन विवरणं कुर्वन्ति । सत्यम्, वैयाकरणमते नमसमासस्योत्तरपदार्थप्राधान्यमेव । नमसूत्रे भाष्यकारेण तथैव सिद्धान्तितत्वात् । तथाहि, आरोपितत्वं नार्थः । तथाच मायामनुष्यमायामृगव्याजनिशाकरकपटब्राह्मणादिशब्देभ्य इव आरोपितो मिथ्याभूतोऽयं ब्राह्मण इत्येवं शाब्दबोधपर्यवसाने ब्राह्मणभिन्न इत्यादिकमार्थिकार्यविवरणं न तु शाब्दोऽयमर्थः । अत एष "एतत्तदोः” (पासू०६-१-१-१३२) इति सूत्रेऽनङ्समास इति सार्थकम् । अत एव चौत्सर्गिकी तत्पुरुषस्योत्तरपदार्थप्रधानताऽपि निर्वहतीति दिक्।
ननु यदीह तदन्तविधिरिष्टस्तर्हि भाज्यविरोधः । तत्र हि "संज्ञो. पसर्जनप्रतिषेधः" इति वार्तिकस्य प्रत्याख्यानमुपक्रम्यार्थद्वारकं विभः क्तिविशेषणमाश्रित्यातिप्रसङ्ग उद्धृतः । सर्वनामार्थसमवेतसंख्याकार. काद्यभिधायिनो के। स्मैः स्थादित्यादिनोकरीत्या तदन्तविधौ सति तु'अतिसर्वाय' इत्यादी समुदायस्य सर्वनामतयाऽर्थद्वारकाविमाकयागा. श्रयणेऽपि स्मायादिप्रसङ्गस्तदवस्थ एव स्यादिति चेत् ? सत्यम् , अत एवापरितोषाद्भाव्ये "अथवा महतीयं संज्ञा क्रियते" इति पक्षा. न्तरमुपन्यस्तमिति गृहाण । ननु यदीयमन्वर्थसंक्षा तर्हि "पूर्वपदात्सं. ज्ञायामगः" (पा०४०८-४-३) इति णत्वं स्यादिति चेत् ? सत्यम् , अत एव निपातनाण्णत्वाभावः। सणत्वं तु रूपमसाध्वेव निपातनेन णत्वशा. स्त्रस्य बाधितत्वात् । अत एव 'शाश्वत्कः' इत्याद्यप्यसाध्वेव । "येषां च विरोधः शाश्वतिकः', (पासू०२-४-९) इति निपातनेन "इसुसुका. न्तात्” (पासू०७-३-५१) इत्यस्य बाधितत्वात् । नन्वेवम् "अपरस्पराः क्रियासातत्ये' (पासू०६-१-१४४) इति निपातनेन सन्ततशब्दो बा. ध्येतेति चेत् ? न, तत्र 'सातत्ये' इत्यनेनैकदेशानुमतिद्वारा "लुम्पेदव. श्यमः कृत्ये" इति पूर्वाचार्यपठितस्य श्लोकस्यैवज्ञापनात् । नन्वेवमपि "पुराणप्रोकेषु ब्राह्मणकल्पेषु" (पा००४-३-१०५) इति पुराणशब्देन पुरातनशब्दस्य बाधः प्राप्नोति । सत्यम् , पृषोदरादिषु पुरातनशब्दस्य पाठो बोद्धव्यः । आगमशास्त्रस्याययटिलोपस्य चानित्यतामा पुरा• णेति निर्देशेन शाप्यते इति तु तत्वम् । तदेव बाधकान्येव निपातना. नीति भाग्य स्थितम् ।
यहा, नेदं संशास्त्रम्, किन्तु गणशुद्धिमात्रफलकम् , यानि सर्व