________________
विधिशेषप्रकरणे सर्वनामसंशाप्रकरणम्। १५७ तु जक्षिति योग विभज्य जक्षेः संशाविधानसामर्थ्यादेव इत्यादय इत्यत. दुगुणसंविज्ञानो बहुव्रीहिः । एतेन 'कतन्तेभ्यः' 'कण्वादिभ्यः' इत्युभ. यत्रापि शकलशब्दसङ्ग्रहार्य यथा तत्पुरुषबहुव्रीहोरेक शेष इति चतुर्थे वक्ष्यते, तहापि "नपुंसकमनपुंसकेन" (पा०स १-२-६९) इति वा 'स्वरभिमानां यस्योत्तरः स्वरविधिः सशिष्यते" इति वा तत्पुरुष. बहुवीयोः सह विवक्षायां बहुवीहेः शेष इति परास्तम्, तद्गु.
संविज्ञानबहुव्रीहिणैव सर्वशब्दस्यापि संग्रहे सिद्धे एकशेषाश्रयणस्य गौरवपराहतत्वात् ।
महासंचाकरणमन्धर्थसंक्षाविज्ञानार्थ सर्वेषां नामानीति । तत्सामयांच्च सर्वार्थाभिधानसामर्थ्य विशिष्टानामेव संबित्वमनुमीयते। तथा च तथाभूतानां गणे पाठस्यावश्यकतया प्रकरान्तरजुषां च पाठे प्रमा. णाभावादेव विशेषेऽवस्थितानां संज्ञानामुपसर्जनानां च सर्वादित्वमेव नास्ति । तेन तेषां गणकार्य संशाप्रयुक्तकार्य चेत्युभयमपि न भवति । गणकार्य यथा-"त्यदादीनाम:" (पासू०७-२-१०२) । तद् नाम क. श्चित, अतिक्रान्तस्तमतितत् । यथा-"अडुतरादिभ्यः" (पासू०७-१२५) । अन्यमतिकान्तमत्यन्यम् । अतिकतरम् । संचाप्रयुक्तं यथा-"सर्व. नाम्नः स्मै" (पा०स०७-१-१४) । अतिसर्वाय । तदेतदभिप्रेत्योक्तं वार्तिककृता-"संशोपसर्जनप्रतिषेधः पाठात्पर्युदासः पठितानां संशाक. रणम्" इति । तस्मात्प्रसिद्धन प्रवृत्तिनिमित्तेन प्रयुक्त इतरं प्रत्यनुपस. र्जनीभूत एवेह संझीति स्थितम् । __ यत्त स्वरूपमात्राश्रयं कार्य न तु गणपाठं संज्ञां वापेक्षते । यथा "युष्मदस्मद्गयां उसोऽश्” (पा०सू०७-१-२७) इत्यादि, तदुपसर्जनत्वे. ऽपि भवत्येवत्यवधेयम् । न चैवं “युष्मद्युपपदे" (पा०सू०१-४-१०५) इत्यादावपि त्वमादिप्रसङ्गः, लोकप्रसिद्धार्थपरतायामेव तत्प्रवृत्तेः । “अ. भिव्यक्तपदार्था ये" इति न्यायात् । तदन्तग्रहणमत्र बोद्धव्यं "द्वन्द्वे च" (पा०सू०१-१-३१) इति झापकात् । तच्च तत्रैव वक्ष्यते, "प्रयोजनं सर्वनामाव्ययसंज्ञायाम्" इति वार्तिकवचनाच्च । तेन 'परमसर्वतः' 'परम. सर्वत्र परमसर्वक' इत्यत्र समस्तात्तसिल् अल् अकच्च सिध्यति । न च तसिलादिविधौ प्रातिपदिकादित्यनुवृत्तेः सर्वनाम्ना च तद्विशे. षणे तदन्तविधिर्भविष्यतीति वाच्यम् “समासप्रत्ययविधौ न तदन्तविधिः" (काभ्वा०) इति निषेधात् । न चैवम् 'अतिसर्वाय' इत्यादावतिप्रसङ्गः, उपसर्जनपर्युदासस्योक्तत्वात् । अत एव 'परमसर्वस्मै' इत्यादौ स्मायादयो भवन्त्येव ।