________________
शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाह्निके
सर्वादीनि सर्वनामानि ( पा०सू०१-१-२७) । एतानि सर्वनामसंज्ञानि स्युः । तद्गुणसंविज्ञानोऽयं बहुव्रीहिः । तस्यान्यपदार्थस्य गुणानां वर्त्तिपदार्थरूपाणां विशेषणानां कार्यान्वयितया संविज्ञानं यत्र स त· णसंविज्ञानः । तत्र सर्व आदिर्येषां तानीति विग्रहः । तच्छब्दप्रयोगे. णान्यपदार्थप्राधान्यं लभ्यते । एवं चित्रा गावो यस्य स इत्यादावपि । अन्यथा हि यस्य गावश्चित्रा इति गोशब्दार्थप्राधान्यं स्यात् । न चैषंविधेऽर्थे बहुव्रीहिरिष्यते । यत्तु वृत्तिवाक्ययोर्विशेष्यैक्यसम्पत्तये चित्राणां गवामयमित्यादि विग्रहवर्णनं मीमांसावार्त्तिके कृतम्, तत्तु न मुनिवचसामनुकूलम्, अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति वार्त्तिककृता वक्ष्यमाणत्वात्। भाष्यकृता च "शेषां बहुव्रीहिः " ( पा०सू०२-२-२३) इति सूत्रे त्रिकतः शेषमाश्रित्य सूत्राक्षरैरेवोकस्यार्थस्य साधितत्वात् । द्वि तीया श्रितातीतादिभिस्तृतीया तत्कृतार्थेनत्यादि क्रमेण हि षण्णां त्रिकाणां समास उक्तस्तदपेक्षया शेषः प्रथमारूपः त्रिकस्तस्यैव बहुव्री हिसंज्ञेति 'वृष्टे देवे गतः' इत्यादेखि चित्राणां गवामित्यस्यापि दूरापास्तं बहुव्रीहित्वम् । किञ्च " मत्वर्थे बहुव्रीहिः" (का०वा० ) इति कात्या यनवचनात्कथं चित्राणां गवामित्यत्र तत्प्रसक्ति: ? ननु 'दण्डी' इत्या दापि दण्डस्यायमिति विग्रहाभ्युपगमादस्मद्रीत्याऽयमेव मत्वर्थ इति चेत्तर्हि सुतरां मुनिवचनविरोधः “तदस्यास्त्यस्मिन् " ( पा०सु०५-२९४) इति सूत्रेण प्रथमान्तादस्त्युपाधिकात्सबन्धिनि मतुब्विधानात् "समर्थानां प्रथमाद्वा" (१००४-१-८२) इति सूत्रेण प्रथमनिर्दिष्टस्यैव प्रकृतित्वावधारणाच्च । नन्वेतान्यपि सुत्रवार्त्तिकमाण्यवचांसि कथञ्चिद्भङ्क्त्वा नेष्याम इति चेत् ? "समर्थः पदविधिः ” ( पा०सु०२-१-१) इत्यादीनि "व्रीहिभिर्यजत" इत्यादिषु पदविधिभिन्नेष्वपि योजयित्वा सामर्थ्यं च भाष्यादिसम्मताद्विपरीतमेव वर्णयन् भवादृशो निरङ्कुशः किं किं न कुर्यात् ? किन्तु व्याकरणाधिकरणे सिद्धान्तितं व्याकरणप्रा माण्यं कथं स्वेच्छया व्याकुलयसीति परं पर्य्यनुयोगे समाधानं वि. भावय । तस्माच्चित्रा गावो यस्येत्येव विग्रहः सकलशिष्टसम्प्रदायसिद्धो मुनित्रयवचसामनुकूलश्चंति दिक् ।
१५६
आदिशब्दस्यावयववाचित्वादुद्धृतावयवभेदः समुदायः समासार्थस्त स्य च समुदायस्य युगपलक्ष्ये प्रयोगाभावादानर्थक्यातइनेष्विति न्यावेग तदवयवेषु प्रवर्त्तमाना संज्ञाऽविशेषात्सर्वशब्देऽपि प्रवर्त्तते इति सुषं तद्गुणसंविज्ञानत्वम् । "छलि सर्वेषाम् " ( पा०सू०८-३-२२) इत्यादिनिर्देशाश्चेह लिङ्गम् | "जक्षित्यादयः षट" (पा०सु०६-१-१) इति सूत्रे
·