________________
विधिशेषप्रकरणे इक्परिभाषासूत्रम् ।
संक्षा विशिष्टानामादैचां भाव्यमानतया सवर्णग्रहणं न प्राप्नोत्येव । यथा च ज्योतिष्टोमराजसूयादिशब्दानां यागविधावेव सामानाधिकरण्याना. मधयत्वावगतिन तु वाक्यान्तरण, तथाऽस्मिन्पक्षे वृद्धयादीनामपि, "वृद्धिरादैच्" (पासू०१-१-१) इति सूत्रं तु "इको गुणवृद्धी" (पा० सू०१-१-३) इतिवत्पदोपस्थापकम् । उपस्थाप्यस्य संशितया परं संज्ञा सूत्रव्यवहारः । आद्यपक्षे तु "यन्न दुखेन" इत्यादौ स्वर्गशब्दार्थावगमवदिहैव वृधादिशब्दार्थावगम इति विशेषः ।
तदयं निर्गलितः सूत्रार्थ:-कृतानामकृतानां चादैचां प्रत्येकं वृद्धि संज्ञा स्यात् । आश्वलायनः, ऐतिकायनः। अश्वलेतिकशब्दाभ्यां नडा. दित्वात्फल्यादिवृद्धिः। उपगोरपत्यमोपगवः ॥ ____ अदे गुणः (पासू०१-१-२) । अदेङ गुणसंक्षा स्यात् । तपरकर. णमिह सर्वार्थम् । तेन 'तरति' इत्यत्राकार एव न तु कदाचिदाकारः। न च प्रमाणत आन्तयण नियमसिद्धिः, रपरत्वे कृते एकस्याध्य मात्र. त्वादपरस्यार्द्धतृतीयमानत्वात् । पचन्ति' 'चता' 'स्तोता॥
इको गुणवृद्धी (पा.सु०१-१-३) ॥ यत्र ब्रूयाद् गुणो भवति वृद्धिर्भ: वतीति तत्र 'इकः' इति षष्ठ्यन्तमुपस्थितं बोध्यम् । चेता, स्तोता; अ. हार्षीत् इत्यादि । इक इत्युक्तेर्नेह-याता, ग्लायति, उभ्भितेति । तथाच वार्तिकम्-"इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्यर्थम्" इति । ननु नै. तानि सन्ति प्रयोजनानि, ज्ञापकेनानिकां व्यावृत्तिसिद्धः । तथाहि, अ. कारस्य 'पचति' इत्यादौ शपं तिपं चाश्रित्य यथाक्रमं "पुगन्त" (पा. सू०७-३-८६) इति "सार्वधातुकार्द्धधातुकयोः” (पा०स०७-३-८४) इति च सुत्रेण सत्यपि गुणे रूपे विशेषो नास्ति । 'अचिकीर्षीत्' इत्यादौ स्वतोलोगेन वृद्धिर्बाध्यते "ण्यल्लोपौ' (कावा०) इति पूर्वविप्रतिषेध. स्य वक्ष्यमाणत्वात् । सूत्रारम्भपक्षेऽपि ह्येषैव 'चिकीर्षकः' इत्यादौ गतिः। “अचो णिति" (पा०स०७-२-११५) इत्यत्र निर्दिषस्थानिकत्वे. न इपरिभाषाया अप्रवृत्तेः । 'अयासीत्' इत्यादौ तु सिचि वृद्धौ सत्यामपि न क्षतिः । वस्तुतस्तु सा परत्वात् सगिड्भ्यां बाध्यते । येननाप्रा. प्तिन्यायेनापवादत्वाद्वाध्यते इति तु निष्कर्षः। न च 'याता' 'वाता' इ. त्यादावातो गुणप्रसङ्गः “गापोष्टक" (पा०सू०३-२-८) इति टकः कित्त्वे. नाकारस्य गुणो न भवतीति शापितत्वात् । तद्धि कित्वं 'सामगः' इ. त्यादावाल्लोपार्थ क्रियते । यदि त्वाकारस्य गुणः स्यात्तर्हि द्वयोरका. ग्योः पररूपेण 'सामगः' इत्यादिरूपसिद्धौ किं कित्वेन ? न चेह 'चिकीर्षकः' इत्यादाविव परत्वादाङ्गत्वाच्चातो लोप एवोदाहर्तुमुचितो न तु