________________
७६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिकेस्वायोगात् । अपिच अस्थ्यादीनामप्यायुदात्तत्वादन्तादेशस्यानोऽपि स्थान्यनुरूपेऽनुदाते एवोच्चारणीये उझत्तोचारणं विवक्षार्थ भविष्य तीत्युदात्तग्रहणं निष्फलमेव, प्रत्युत क्रियमाणं तद्यनाधिक्येऽप्यविवक्षा ज्ञापयेत् । यदप्येक श्रुत्या सूत्रपाठात्वचिदुदात्तोच्चारणं विवक्षार्थमिति, तदपि चिन्त्यम्, एवं सत्यनोऽप्युदात्तोच्चारणेनैव सिद्धावुदात्तग्रह णवैयथ्यापत्तेः उक्तज्ञापनासम्भवाच । तथाहि, किं झाप्यम्-स्वशः ब्देनानुपात्तो गुणो न विवक्ष्यते इति आहोस्विदसति यत्नविशेषे न विवक्ष्यते इति ? आधे निपातनस्वरो न विवक्ष्येत । अन्त्ये तूदात्तो. च्चारण एवं विवक्षाहेतौ यत्नविशेषे स्थिते कथं ज्ञापकोत्थानं, मूलशे. थिल्यात् । तस्माद् गुणानामभेदकत्वप्रतिपादकमत्रत्यं भाष्यमुत्तरग्र. न्थविरुद्धमेवेति चेत् ?
. उच्यते, "विभाषा छन्दसि" (पा०सू०१-२-३६) इति वैकल्पिक मैकश्रत्यङ्गीकृत्य "पक्षान्तरैरपि परिहारा भवन्ति" इति न्यायेन तत्र तत्रायदात्तनिपातनं करिष्यते इत्युक्तम् , इह तु त्रैस्वर्येण सूत्राणां पाठ. माश्रित्य स्वरूपेणोपात्तस्य गुणस्य नान्तरीयकत्वेनाविवक्षितत्वसम्भ. वाददात्तग्रहणं ज्ञापकमित्युक्तम् , अतो न विरोधः। यद्वा, "अणुदित्स. वर्णस्य" (पासू०१-१-६७) इत्यत्राग्रहणेनैव सिद्धे गुणभिन्नानां यव. लानां संग्रहाय क्रियमाणमणग्रहणं गुणानां भेदकतामपि झापयति । भेदकाभेदकत्वपक्षयोश्च जातिव्यक्तिपक्षयोरिव लक्ष्यानुरोधाद्वयवस्थे. त्युक्तं हल्स्त्रे । तेन भेदकत्वपक्षाश्रयणेन "आद्युदात्तनिपातनं करिध्यते" इत्यादि भाष्यं बोध्यम् । अत एव चेदमस्त्यदाद्यत्वे "अष्टन आ विभक्तो" (पा०सु०७-२-८४) इत्यादौ चानुनासिको न प्रवर्तते । नन्व. णग्रहणं "हलो यमाम्" (पा०सू०८-४-६४) इति लोपेऽन्यतरस्यांग्रह. णानुवृत्तिज्ञापनार्थमित्युक्तमिति चेत् ? न, उभयचापकत्वेऽप्यविरो. धात् । न हकनैकमेव ज्ञाप्यमिति नियमः, यावता विनानुपपत्तिस्तस्य सर्वस्य ज्ञाप्यत्वात् । अत एवाऽऽत्वविकल्पः कृतात्वस्य षट्संक्षा चे त्युभयमपि "अष्टनो दीर्घात्" (पा०प०६-१-१७२) इति दीर्घग्रहणेन झापयिष्यते। अत एव च "संहितायाम्" (पा०सू०६-१-७२) इत्यधि. कारेण संहिताया अनित्यत्वं कालव्यवायेप्यानडादिप्रवृत्तिवेत्युभयं बाप्यते इति दिक् । एवञ्चाकारस्य तपरकरणं सवर्णार्थमितीहत्यं वा. तिकमपि भेदकत्वपक्षेण साध्वेव । भाग्ये तु पक्षान्तराभिप्रायेण ऐजर्थत्वमुक्तम्, तदपि यथोहेशपक्षे बोध्यम् , आदेचां संचाविधावनुवाद्य. स्वेन सवर्णग्राहकत्वप्रसके । कार्यकालपक्षे तु विधिवाक्येनैव वृद्धि.