________________
विधिशेषप्रकरणे वृद्धिसंज्ञासूत्रम् ।
स्वात्, केवल विधानेपि 'यदिह परिनिष्ठितं, तत्साधु' इति श्रुतार्थापत्ति प्रकल्प्य वाक्यात्साधुत्वसिद्धश्च । इह च प्रत्येकं वाक्यपरिसमाप्तिः "मालादीनां च" (पासू०६-२-८८) इत्यादिलिङ्गात् 'ब्राह्मणा भोज्य. न्ताम्' इत्यादी तथा दर्शनाच्च । यद्यपि 'गर्गाः शतं दण्ड्यन्ताम्' इत्यादी समुदायेऽपि वाक्यपरिसमाप्तिदृश्यते गुणकर्मभूतानामपादान. स्थानापनानां गर्गाणामनुरोधेनेप्सिततमकर्मतया प्रधानभूतस्य शतस्या. वृत्ययोगात्, तथापीह शास्त्रे यत्नं विना समुदाये शास्त्रं न समाप्यते । अत एव "उभे अभ्यस्तं सह" इति सहग्रहणं वार्तिककुद्वक्ष्यति । भाष्य. कारस्तूभेग्रहणमेवैतदर्थमिति वक्ष्यति । अन्यथा “एकाचो द्वे" (पा०सू० ६-१-१) इत्यनुवृत्या सिद्धेः किमुभेग्रहणेन ? संयोगसंज्ञायां समाससं. झायांच महासंज्ञाकरणमेवान्वर्थताविज्ञानार्थमिति यत्नः। अतएव "सह सुपा" (पासु०२-१-४) इति सहग्रहणं योगविभागेन तिङन्तादिस. मासविधानार्थमिति स्थापयिष्यते । इह तपरकरणमैजर्थमीदेदितिव.
वारणार्थमसन्देहाथै चेति प्रपञ्चितम् “एओ" "ऐऔच" (मा०सू० ३।४) इतिसूत्रयोः । यत्विहोतं वार्तिककृता-"आकारस्य तपरकरणं सवर्णार्थम्" इति, तत्तु 'भेदका गुणाः' तपरसुत्रं चानणि विध्यर्थम्' इत्यभिप्रेत्य । भाष्ये त्वभेदका गुणा इति स्थितम् । गुणा उदात्तानुदा. तस्वरितानुनासिका नास्तरीयकतयोच्चार्यमाणा अपि यत्नं विना न विवक्ष्यन्ते इत्यर्थः । “अनदात्तः" (पा०स०ए०७-१-७५) "अडुदात्तः" (पासू०ए०६-४-७१) इत्यादावुदात्तग्रहणं चेह सापकम् । अन्यथा
युदात्तमेवोच्चारयेल्लाघवात् । ननु यद्यभेदका गुणास्तहि यवक्ष्यति भाग्यकार:-"हन्यादेशस्य वधेः स्थानिवद्भावादनुदात्तत्वादिप्रतिषेधे प्राप्ते तद्वारणाय वध्यादेशे उदात्तनिपातनं करिष्यते । तथाच "एकाच उपदेशे" (पासू०७-२-१०) इति सूत्रे एकाग्रहणं न कर्त्तव्यम्" इति, तदेतद्विरुध्येत, अविवक्षाप्रसन्नात् । अथोच्येत-तत्रापि"स्थानेन्तरतमः" (पासू०१-१-५०) इति वचनादादेशस्य यः स्वरः प्राप्तस्तस्मिन्नुच्चार• यितव्ये उदात्तोच्चारणं यत्नेन विवक्षार्थ ज्ञायते इति । एवमपि यद्वक्ष्यति षष्ठे "चतसर्याधुदात्तनिपातनं करिष्यते स. निपातनस्वरः "चतुर शसि"(पासू०६-१-१६७) इत्यस्य बाधको भविष्यति" इति तद्विरुध्यते । चतुश्शब्दो व्युत्पत्तिपक्षे "प्रः संख्यायाः" (फिन्सू०२८) इति फिद. सूत्रेणाधुदात्तः। "चतेरुरन्"(उ०सू०७५७) इति व्युत्पादनेऽपि नित्स्वरणा. चुदात्त एव । तत्स्थानिकस्य चतसृशब्दस्यापि स्थानिस्वरेणाद्युदात्त. स्योच्चारणोपपत्तौ "चतुरा शसि" (पा०सू०६-१-१६७) इत्येतद्वाधक.