________________
७४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिके
समाधेयमिति दिक् । एतेन "आर्द्धधातुकं शेषः" (वासु०३-४-११४) "कृदति" (पा०स०३-१-९३) "अपृक्त एकाल्प्रत्ययः" (पासू०१-२४१) "स्वं रूपं शब्दस्य" (पासू०१-१-६८) "अणुदित्" (पासू०११-६९) "तपरः" (पासू०१-१-७०) "आदिरन्त्येन" (पा०सू०१-१-७१) "येनविधिस्तदन्तस्य" (पासू०१-१-७२) इत्यादावपि व्यभिचार उधृतः, तत्रापि विपरीतानुपूर्वीकल्पनात् । कल्पकत्वस्य च प्रागेवो. कत्वात् पक्षान्तरैरपि समाधानाच्च । अत एव स्थानिवत्सुत्रे 'वत्कर णङ्किमर्थम्' इत्याशङ्ख्य "स्थान्यादेशस्य संक्षा मा विज्ञायि" इति भा. ज्यमप्युपपन्नम् । यत्तु "अपृक्त एकाल्" (पासू०१-२-४१) इति परि. भाषा, न तु संज्ञा इत्युक्तं, तद् वृद्धादावपि सुवचम् । “अपृक्तसंज्ञायां हलग्रहणं स्वादिलोपे हलो ग्रहणार्थम्" इति वार्तिकस्य तद्भाग्यस्य च प्रतिकूलम् । तस्मादुक्कैवगतिः समीचीनेति दिक्।
ननु "मृजेर्वृद्धिः' (पासू०७-२-११४) इत्यादावन्योन्याश्रयः, सं. शयाहि विधिर्विहितानां च संक्षेति । न च मालादौ संशाप्रवृत्तिसम्भवे सतह भाविसंझाविज्ञानं सम्भवति । तस्माद् वृद्धिशब्द एवादेशः स्यात । अन्यत्र वृद्धिसंज्ञाप्रवृत्तावपि मालादिशब्दान्तर्गतस्याकारस्य तत उत्कृप्येह विधातुमशक्यत्वादिति । ___ अत्राहुः-'मार्टि' इत्यादौ सिद्धस्यैवाकारस्य मृज्युपदेशादसाधुत्वे प्रसते साधुत्वं "मृजेवृद्धिः" इत्यादिना बोध्यते न त्वपूर्व आकारो भाव्यते, येनान्योन्याश्रयः स्यात् । उक्तं च वार्तिककृता-"सतो वृद्ध्या. दिषु निमित्तभावात्तदोश्रय इतरेतराश्रयत्वादप्रसिद्धिः। सिद्धं तु नि. त्यशब्दत्वात्" इति । अथ लक्षणकचक्षुकः कश्चिद्याकरणबलेनैव'मार्टि' इत्यादिप्रयोगेषु व्युत्पित्सेत, तथापि न क्षतिः शालामालादावाकारे श्रुते आत्वसामान्यलक्षणप्रत्यासत्या 'मार्टि' इत्यादिप्रयोगसमवायिनां सर्वेषामाकाराणां वृद्धिशब्दवाच्यताग्रहात् । सामान्यलक्षणानभ्युपग. मपक्षे त्वावजातौ शक्तिमहात् शक्त्यनुभवपदार्थस्मरणवाक्यार्थबोधानां समानप्रकारकत्वेनैवातिप्रसङ्गभङ्गाभ्युपगमाद्वा । अन्यथा 'गहे घटो. ऽस्ति' इति वाक्यादण्यपूर्वव्यक्तिन गृहातात दिक् । अत.एवं "नवेति विभाषा" (पासू०१-१-४४) इति सूत्रे भाष्यकारो वक्ष्यति-साधु त्वस्य विधेयत्वे "विभाषा श्वेः" (पासु०६-१-३०) इत्यादिना तस्य । विकल्पापत्तिः । तस्मात्सम्प्रसारणाद्य विकल्प्यत इति । एषैव लडा. दिविधौ गतिः । न चैवं साध्वनुशासनत्वमङ्गः, साधुत्वविशिष्टस्यैव सर्वत्र लक्षणया विधानगिति कृन्मेजन्तसूत्रे विवरणकारादिभिरुक.