________________
विधिशेषप्रकरणे वृद्धिसंज्ञासूत्रम् । केचितु यावद्धिजननयोग्यत्वे सति किशित्फलोपहितस्तधितो निमित्तशब्देनाच्यते । वैयाकरणे तु ऐचं प्रति तद्धितो न निमित्तं निषेध. सन्नियोगशिष्टतामात्रेणातिप्रसङ्गमनात् । तेन वैयाकरणमायें नातिप्र. सङ्गः । "परिषदो ण्यः" (पासू०४-४-४४) 'पारिषद्या भार्या इत्यादी स्वाकारमात्रोपहितत्वेऽपि स्वरूपयोग्यता सकलवृद्धिं प्रत्यस्तीत्याहुः। तस्मात्
आवृत्तौ गौरवापत्तेः शालीयादेरसिद्धितः । मालादीनां चेति लिङ्गाधाप्तिन्यायात्तथैव च ॥ भाविसंशात्वविक्षाने गौरवाच्चेह निश्चितम् ।
आदज्मात्रस्याविशेषादृद्धिसंशा विधीयते ॥ अनर्थकं साध्वनुशासनं प्रयोगनियमार्थमादेशार्थमागमार्थ विशेष. विशेष्यभावार्थ चेदं सूत्रमिति षट्पक्षी तु भाष्य एव निराकृतत्वाद. सम्भवदुक्तिकत्वाच्च नेह तन्यते । संज्ञासंशिभाव सत्यपि का संज्ञा कः संक्षीत्यत्र तात्पर्यग्राहकास्तु बहवो न्यायाः । तथाहि,
यच्छन्दयोगः प्राथम्यमित्याधुहेश्यलक्षणम् ।
तच्छन्द एधकारश्च स्यादुपादेयलक्षणम् ॥ इत्यभियुक्तोक्तस्तथैवानुभवाश्च प्राथम्यं . तावत्संशित्वे लिङ्गम् । तर "अदङ् गुणः" (पासू०१-१-२) इत्यादी स्पष्टमेव । वृद्धिसंज्ञा. सूत्रे तु मङ्गलार्थ वृद्धिशब्दस्यादी प्रयोगऽपि वक्ष्यमाणेायान्तररा. देचां संशित्वे निर्णीते सत्यादैऋद्धिरित्याकारकपदानुपूर्वीज्ञानानन्तर मेव वाक्यार्थबोधाभ्युपगमात्तजनकीभूतानुपूर्वीशाने आदचामेव प्राथ. म्यान्न व्यभिचारः । पदानुपूर्वीशानमेव चासत्तिज्ञानमित्युच्यते । इदं च शाब्दबोधे हेतुरिति यर्नेप्यते तेषामासन्नानासन्नकथोच्छेदः स्यात्, पदसमूहालम्बने सकलपदानां पदार्थस्मरणे च सकलपदार्थानां विषयत्वाविशेषात् । आवृत्तिश्च संज्ञात्वे लिङ्गम् , व्यवहारार्थमेव सं. शाकरणात् । भेदाभेदाभ्यामपि संशित्वसंज्ञात्वे क्वचिनिर्णीयेते । बहूनां घेका संशोचिता लाघवात्, न त्वेकस्य बह्वयः संशा गौरवात् । न्यू. नाधिकव्यक्तिकास्तु बह्वयः संशा इष्यन्त एव, तत्तत्प्रयुक्तकार्यवैलक्ष. ण्यात, कृत्कृत्यप्रत्ययसंशावत्, तद्धिततद्राजप्रत्ययसंशावच्चालध्वक्षर. त्वमपि टिघुमादौ संशालिङ्गं यथायथं बोध्यम् । इह त्वावृत्त्याऽभेदेन च वृद्धिशब्दः संक्षेति स्थिते तद्वलेन श्रुतानुपूर्वीभनादादैचां प्राथम्यमपि योजनीयम् । यद्वा, स्वेच्छया संज्ञाः क्रियन्ते इति पक्षं विहाय व्यव. हाराय नियम इति पक्षे योज्यम् । आधेऽपि कार्यकालपक्षाश्रयणेन वा