________________
७८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिके
पररूपमिति वाच्यम् , तावतापि ज्ञापकत्वे बाधकाभावात् । वस्तुतस्तु नेह लोपेन भवितव्यम् । तत्र हि "अनुदात्तोपदेश" (पा०स०६-४-३७) इत्यतोनुवृत्तेनोपदेशग्रहणेनार्द्धधातुकस्य विशेषणादार्द्धधातुकोपदेशे. यदकारान्तं तस्यातो लोपो विधीयते । अन्यथा 'गतो गतवान्' इत्या. दावतिप्रसङ्गात् । न चासिद्धवत्सूत्रेण निर्वाहः, तस्य भाज्यकृता प्रत्या. ख्यास्यमानत्वात् । किश्व "अय पय गतौ" (भ्वा०मा०) आभ्यां किपि 'अत्' 'पत्' इति रूपं माधवादिमिरुदाहतं, तदपि यथाश्रुते न सिध्द । तस्मादुपदेशानुवृत्तिरेव शरणम । कयं तर्हि 'धिनुतः' 'कृणुतः' इत्यादी "मतो लोपः" (पासू०६-४-४८) इति चेत् ? सनियोगशिष्टतया उप्र. स्ययोपदेशवेलायामेवाकारस्यापि बुद्धशारोहादिति केचित् । अन्ये तु "धिन्विकृब्योर च" (पासू०३-१-८०) इति सौनक्रमानुरोधात्प्रथम. मकारादेशस्तदनन्तरं चशब्दाकृष्ट उप्रत्यय इति नोक्तदोष इत्याहुः।
'मन्वेवं 'सामगाय' इत्यादावेकादेशस्य पूर्वान्तत्वेन प्रहणादू "आतो धातोः” (पा०सू०६-४-१४०) इत्यालोपः स्यादिति चेत् ? अत्र कैयट:"अकारमाश्रित्य कृतो यशब्दः सन्निपातपरिभाषया लोपं न प्रवर्तय. ति। दीर्घत्वं तु "कष्टाय" (पासु०३-१-१४) इति निपातनाद्भवति" इति “ए ओ"सत्रे स्थित्वा समाहितवान् । तस्यायमाशय:-यादेशे हि हस्वत्वविशिष्टमत्वं प्रयोजकम्, तद्विधावत इत्यनुवृत्तेः । तत्र यद्यपि दी. धैंण हस्वत्वांशी निवर्तितस्तथाप्यत्वमात्रमादेशेऽप्यनुवर्तते । तदपि चे. ल्लोपेन निवत्यैत तर्हि परिभाषाविरोधः । दोशे परंशापकात्परिभाषा बाध्यते । न चैवमंशान्तरेऽपि तद्वाधोऽस्विति वाच्यम् , तदबाधेड. प्युपपत्तेः । प्रकृतसूत्रे “एओ सूत्रे च गापोष्टकः कित्त्वस्यानन्यार्थतां वदन् भाग्यकारश्चात्र प्रमाणम् । एतेन शुभंयाशब्दस्य नपुंसके इस्वत्वे डेर्यादेशे दीर्घ च सति "आतो धातोः" (पा०सू०६-४-१४०) इत्या. लोपे च 'शुभंय्यः' इत्यादि माधवोदाहृतं भाग्यविरोधाचिन्त्यम् । अत एव नपुंसके "श्रीपं ज्ञानवत्" इति प्रन्यं श्रीपायेतिरूपपरतया यथा. श्रुतमेव समजसं मङ्कत्वा माधवानुरोधेन 'प्रायेण प्रानवत्' इति व्याः चक्षाणा अपि प्रत्युक्ताः । तथा 'ग्लायति' इत्यादौ सन्ध्यक्षराणामप्यु पदेशसामर्थ्याद गुणो न भविष्यति । इतरथा हि एकारमेवोपदिशेत् । मात्रालाघवविरहेऽपि प्रक्रियालाघषसत्त्वात् । न चैवमायादेशोऽपि न स्यादिति वाच्यम् , “यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते य. स्य तु विधेनिमित्तमेव नासौ बाध्यते" इति न्यायात् । गुणं प्रति है. कारोपदेशोऽनर्थका, ग्ले इत्यस्यापि सुण्ठत्वात् । मायादेशस्य तु नि.