________________
विधिशेषप्रकरणे इक्परिभाषासूत्रम् ।
मित्तमेव । न च पलाय' इत्येव पठ्यतामिति वाच्यम् , तथा सति हि 'त्वया ग्लायते' इति रूपं न स्यात्, यकारद्वय श्रवणप्रसङ्गात् 'जग्लौ' इत्याधसिखापत्तेश्च । यत्तु एकाजजन्तत्वाभावादिप्रसनेन 'ग्लाता' इत्यादि न स्यादिति । तन्न, अनुदासोपदेशवेषां सुपठत्वात् । न चैः वम् 'अग्लासिष्टाम' इत्याचसिद्धिः अनादन्तत्वेन सगिटोरसम्भवादिति पाच्यम् "लोपो ब्योः" (पासु०६-१-६६) इति यलोपे कृते सगिटो: सुलभत्वात् । सनिपातपरिभाषा त्वनित्येति कृतितुगग्रहणेन झापयि. ज्यते । तेन वल्सन्निपातेन कृतो यलोपो पल्सन्निपातविघातकमपीटं प्रवर्तयिष्यत्येव । अनित्यताश्रयणेनैव हि 'दाक्षिः' 'गोदः' इत्यादा. वदातोलोपः ।, अन्यथा इञ् कप्रत्ययौ प्रति तयोरुपजीव्यत्वाल्लोपोन स्यात् । अस्तु वा 'सन्निपातपरिभाषाश्रयणाद् 'अग्लासिष्टाम्' इत्यादि न सिध्येद् इत्यपि यान्तोपदेशे दोषान्तरम् । सर्वथापि संध्यक्षराणामुप. देशसामर्थ्याद् गुणो न । आयादयस्तु भवन्त्येवेति सिद्धम् ।
स्यादेतत् । "आदेच" (पासु०६-१-४५) इत्यात्वमपि तर्हि बाध्य. ताम् । नाजुपदेश आत्वस्य निमित्तम् , ग्ले इत्युपदेशेऽपि तस्य सु. करत्वात् । शिति गुणेनाशित्यात्वेनैचोऽपहारे प्राप्त पैजुपदेशसामर्थेन गुणात्वयोर्मध्ये कतरदाध्यं कतरनेत्यत्र विनिगमनाविरहेणोभयबाधधौ. व्यात् । न चैवमात्वविधेः कोऽवकाश इति वाच्यम् “धेट पाने" (दि. १०) "शो तनूकरणे" इत्यादेरवकाशस्य स्पष्टत्वात् । नन्वेवमादेइत्ये. व ब्रूयात् , तथा चैज्ग्रहणं निरवकाशमेवेति चेत् ? न, उत्तरार्थत्वात् । "मीनातिमिनोति" (पा०सू०६-१-५०) इत्यत्र धेच इत्यनुवृत्त्या 'माका. रान्तानामेजन्ताः प्रकृतयः, एजन्तानामपीकारान्ताः' इति घुसंज्ञासूत्रे वार्तिककारः स्फुटीकरिष्यति ।
अत्राहुः-अन्यतरबाधेनैव सम्भवे लायबाधकल्पनं तापदन्याय्यम् तत्र यद्यणुरपि विशेषो नावधार्यत तार्ह विनिगमनाविरहात्स्यादेवो. भयबाधः। अस्ति चेह विनिगमकम् "न ध्याख्या' (पासु०८-२-५७) इति सूत्रे ध्यायतेः कृतात्वस्य निर्देशनात्वाबाधापनात् । किश्च एज्य. हणसामर्थ्यादप्यात्वं भवति । यत्तूक्तमुत्तरार्थ सदिति । तन्न, “मीना. ति" (पासू०६-१-५०) इति सूत्रेण हि नैचः स्थाने आत्वं विधीयते । किन्त्वेनिमित्ते प्रत्यये विवक्षिते उपदेशावस्थायामेवान्त्यमावास्यात्वं विधीयते । अन्यथा 'दाय' इत्यादौ भावे घनं बाधित्वा “एरच्" (पासू० ३-३-५६) स्यात् , 'ईषदवदानः' 'स्ववदान' इति "आतो युच्” (पा०स० ३-३-१२८) न स्यात् 'अवदायः' इति "श्यायधा" (पासु०३-१-१४१)