________________
शब्दकौस्तुभप्रथमाध्यायप्रथम पादतृतीयाह्निके
इति णो न स्यात् । स्पष्टीकरिष्यते चेदं षष्ठे एव भाष्यकृता । एव निमित्ते प्रत्यये इत्युच्यमानेऽपि 'दापयति' मापयति' इत्यादि सिध्यत्येव, णिचो गुणं प्रत्यपि स्वरूपयोग्यत्वात्, वृद्ध्या गुणवाधेऽपि यो. ग्यतानपायात् । न चेह फलोपधानं विवक्षितम्, आत्वस्यैज्विषये प्रा. गेव प्रवृत्तेरभ्युपगमात् । अन्यथा वञ्युच्णप्रत्याया न स्युरिति समनन्तरमेवोक्तम् । तस्मादात्वं भवत्येव । गुणस्त्वैका रोपदेशसामर्थ्यादू बा ध्यते इति स्थितम् ।
८०
व्यञ्जनानां गुणः स्यादिति परमवशिष्यते । ततश्च हिता' इत्यत्र हकारस्य कण्ठ्यत्वादकारः स्यात् 'उम्भिता' इत्यत्र भकारस्योष्ठ्य त्वादोकारः; ततश्च 'येता' 'उनविना' इति स्यात् । ईकारस्य यणि कृतेSकारस्येटा सहाद्गुणो न त्वल्लोपः, आर्द्धधातुकोपदेशे यदकारान्तं तस्य लोप इति व्याख्यातत्वात् । उम्मेश्वानुस्वारपरलवर्णयोर्गुणे कर्त्तव्येऽसिद्धत्वादिति । नैषदोषः "सप्तम्यां जनर्डः " ( पा०सु०३-२९७) इत्यत्र डप्रत्ययस्य डित्करणं ज्ञापकं न व्यञ्जनस्य गुणो भवतीति । यदि हि स्यात्तर्हि नकारस्यार्द्धमात्रिकस्य मात्रिके अकारे गुणे कृते त्रयाणामकाराणाम् “अतो गुणे" (पा०सु०६-१- ९७ ) इति पररूपे च सिद्धं रूपम् 'उपसरजाः' 'मन्दुरजः' इति, तत्कि टिलोपार्थेन डित्करणेन ? स्त्रीगवीषु पुंगवानां गर्भाधानाय प्रथममुपसरणमुपसरः । " प्रजने सचैः” (पा०सू०३-३-७१ ) इत्यध्प्रत्ययो घञोऽपवादः । प्रजनः स्यादुपसरः” (अ०को०३-२-२५) इति सङ्कीर्णवर्गेऽमरः ! प्रजायतेऽस्मिन्प्रजनः प· शूनां गर्भग्रहणकाल इति क्षीरस्वामी । उपसरे जात उपसरजः, मन्दुरा यां जातो मन्दुरजः “उद्या पोः संज्ञाछन्दसोर्बहुलम्' (पा०सु०६-३-६३) इति ह्रस्वः । " वाजिशाला तु मन्दुरा" (अ०को०२-२-७) इत्यमरः । न च डकारः श्रवणार्थोऽस्विति वाच्यम् " प्रावृट्शरत्कालदिवां जे” [पा० सू०६-३-१५] इति कृतटिलोपनिर्देशा लिङ्गात् । ननु नेदं लिङ्गं "जै क्षये" (स्वा०प०) इत्यस्य कप्रत्ययान्तस्य 'ज' इति निर्देशोपपत्तेः । कथं तर्हि क र्मण्युपपदे विहित आतः कः 'प्रावृषिजः' इत्यादौ स्यादिति चेत् ? 'द्विपः ' 'पादपः' इत्यादिसिद्धये "सुपि स्थ: " ( पा०सू०३-२-४) इत्यत्र सुपीति योगविभागाभ्युपगमात् । सत्यम्, डकारस्य श्रवणार्थत्वे इत्संशाशास्त्रं बाध्येत । न च प्रयोजनाभावः, टिलोपार्थत्वात् । न च गुणेनान्यथासिद्धिः, तदभावस्यापि शाप्यत्वात् । निषादस्थपत्यधिकरणन्यायेन (जै०न्या०६ - १-१३) फलमुख गौरव स्यादोषत्वात्, डकारस्य श्रवणार्थनाभ्युपगमे "सिद्धं तु नित्यशब्दत्वात्किमर्थं शास्त्रमिति चेनिवर्त्तक
·