________________
२३८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमाहिकेनपुंसकबहुवचने शौ झल्लक्षणे नुमि कर्तव्ये अतो लोपस्य स्थानिव. स्वनिषेधेन नुम्प्रसङ्गाच्च । एतच्च "दाधीवेवीटाम" (पा०स०१-१-६) इति सूत्रे कण्ड्वादिसूत्रे च मिश्रग्रन्थे स्फुटम् । कैयटोऽपि "दीधीववी. टाम्" (पा०स०१-१-६) इत्यत्र क्वौ विधि प्रतीत्यर्थो व्यवस्थितो न तु क्वौ लुप्तं न स्थानिवदितीत्याह । अत्र व्यवस्थित इति वदता को लुप्तं न स्थानिवदिति पक्षोऽपि क्वचिदाश्रीयते एव, नियमः परं नास्तीति सूचितम् । लुप्तमिति नपुंसके भावे कः। एव सख्युः गोमान् पदः त्वम् अहमिति सिद्धम् । तथाहि, "त्यत्यात्परस्य" (पा० सू०६-१-११२) इतिसूत्रे भाग्यम्-सस्त्रीयतेः सख्युः लूनीयतेलून्युरिति । तत्र सखीयतेः क्विपि अल्लोपे यलोपे अल्लोपस्य स्थानिवद्भावात परत्वात्क्विलोपं बाधित्वा "इकोयणचि" (पा०स०६-१-७७) इति य. ण् स्यात् । ततो यलोपे 'सखः' 'लूनः' इति स्यात् । अत एव क्वौ लुप्तं न स्थानिवदिति तत्र यणं परिजहार कैयटः।
तथा "उगिचाम' (पा०९०७-१-७०) इति सूत्रे अधातुभूतपूर्व स्यापि नुमर्थमधातुप्रहणमित्युक्त्वा गोमत्यतेरप्रत्यये 'गोमान्' इत्युः दाहृतं भाग्ये। तत्राप्यल्लोपस्य स्थानिषत्वात्सर्वनामस्थानपरत्वं ना. स्तीति नुम न स्यात् । न चाधातुग्रहणसामध्यांतस्थानिवद्भावकृतव्य. वाये सत्यपि नुम् स्यादिति वाच्यम्, माचारक्षिबन्तात् "क्विप्न' (पा०स०३-२-७६) इति क्विपि चरितार्थत्वात् । तस्मात्क्वौ लुप्तं ने. त्येव शरणम् । ननु गोमत्यतेोमततेर्वा उभयथापि, 'गोमान्' इति न सिध्यति “अत्वसन्तस्य" (पासू०६-४-१४) इति दीर्घविधौ अधातो. रिति विशेषणात् । सत्यम्, तत्राधातुग्रहणमसन्तस्यैव विशेषणं न. स्वत्वन्तस्यापीति वक्ष्यमाणत्वान्न दोषः।।
तथा “येनविधिस्तदन्तस्य" (पासू०१-१-७२) इति सूत्रे केवलोऽपि पाच्छब्दोऽस्ति । पादयतेः पात , पदः" इति भाग्यम् । अत्रापि स्था. निवद्भावावयवधानेन पावो न स्यात् । क्वौ लुप्तं नेति सिध्यति । अत एव "पादस्य पादहस्त्यादिभ्यः" इति न सूत्रितम् । प्रतिपदोक्त. स्यास्यैव पदादेशो मा भूत्, किन्तु क्विबन्तस्यापि यथा स्यादिति । एवज "पादस्य लोप" (पासु०५-४-१३८) इति गुरुनिर्देशं कुर्वता सूत्रकृतैव क्वौ लुप्तं न स्थानिवदिति शापितम् । तच्च क्वाचित्कमिति तु प्रकृतसूत्रस्थेनैवं विज्ञायते क्वौ लुप्तं नेति भाज्यस्यार्थः, विशब्दमा• हात्म्यात ख्यत्यात्सूत्रादिभाण्याच्चेति व्यवस्थितशब्दं प्रयुखानेन कैय. टेन ध्वनितम् ।