________________
विधिशेषप्रकरणे स्थानिवद्रावनिषेधसूत्रम्। २३७ चरि-जक्षतुः, जक्षुः । घसेर्लिट् अतुम् उस् च । “गमहन" (पा० सु०६-४-६८ ) इत्युपधालोपः । "खरि च" (पासू०८-४-५५) इति च. वे प्रति न स्थानिवत् ।
तत्र वार्तिकम्-"स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्" इति । तेनान्यः स्थानिवदेव । पञ्चभिररात्निभिः क्रीताः पश्चारत्नयः । घेदे तु पश्चारत्न्यः । "जसादिषु छन्दसि वावचनं प्राङ्णौ चङ्युपधायाः" (कावा०) इति गुणाभावे यण् । तस्य स्थानिवद्भावाद् "इग न्तकाल" (पासू०६-३-२९) इत्यादिना पूर्वपदप्रकृतिस्वर इत्याहुः । यद्यपि “असिद्धं बहिरङ्गम्" (प०भा०५०)इत्यनेनापीदं सिध्यति तथापि अकृतम्यूहपरिभाषामाश्रित्य योज्यम् । 'अचितीकः' 'अखट्वका' इत्यत्र "हूस्वान्तेऽन्त्यात्पूर्वम्" (पा०सु०६-२-१७४) इत्यस्य क्रमेण प्रवृत्यप्र. वृत्ती फलमिति तु पूर्वसूत्रे एवोक्तम् । न च तत्र बहिरङ्गपरिभाषायाः प्रसङ्गोऽस्ति ।
किर्योः, गिर्योः । व्युत्पत्तिपक्षे "हलि च" (पा०सु०८-२-७७) इति दीर्घःप्राप्तो यणः स्थानिवद्भावानभवति । "अच" (उ०स०५८८) इत्यधिकारे "भुजेः किञ्च" (उ०म०५९१) "कृगृपृकुटिभिदिछिदिभ्यः श्च" (उ०सु०५-९-२) इति इ., स च कित् । यत्तु हरदत्तेन न्यासक. ता च "कृपोरिच्च" इत्युपन्यस्तं, तत् कचिदुणादिवृत्तौ अन्वेषणीयम् । वाय्वोः इह यलोपो न । ___ अस्मिश्च वात्तिके स्वरग्रहणमात्रमावश्यकम् । 'कियोः' गिर्यो।' इति तु "उपधायां च' (पासू०८-२-७८) इति सुत्रे वृत्तिकारोक्तरी. त्या उणादीनामव्युत्पत्तिपक्षालम्बेनापि सिद्धम् । 'वाय्वोः' इति तु बहिः रङ्गस्यासिद्धतया सिद्धम् ।
किलुगुपधात्वचपरनिर्वासकुत्वेषपसंख्यानम् । पूर्वत्रासिछे च । तस्य दोषः संयोगादिलोपलत्वणत्वेषु । अस्यार्थ:-क्वो विधि प्रति न स्थानिवत् । लवमाचक्षाणो लौः। अत्र णिचि यष्टिलोपो यश्च क्वौ णिलोपस्तदुभयं "च्छवोः शड्" (पासू०६-४-१९) इति वकारस्य क्विनिमित्ते ऊठि कर्तव्ये न स्थानिवत् । “एत्येधत्यूठ" (पासू०६१-८९) इति वृद्धिः । तथा 'पिपठिषि ब्राह्मणकुलानि' इति "दीधीवे. पीटाम" (पा०स०१-१-६) इतिसुत्रे यदुदाहृतं तदपि क्वो विधि प्र. तीति व्याख्याने एव सङ्गच्छते । क्वौ लुप्तं प्रति न स्थानिवदिति व्या. ख्याने तु 'लौः' 'पिपठिषि' इत्युभयमपि न सिद्धयेत् , णिचि टिलोप. स्य स्थानिवद्भावे ऊठो ऽसम्भवात् , पिपठिषतेरप्रत्यये अतो लोपे