________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् । २३९
युष्मानाचष्टे युष्मयति । ततः क्विपि णिलोपे सौ "त्वाहौ सौ " ( पा०सु०७-२-६४ ) इति कर्त्तव्ये णिलोपो न स्थानिवत् । तदुक्तम्स्थानिवत्त्वं च णेरत्र क्वौ लुप्तत्वान्न विद्यते । इति
स्थानिवत्त्वामति । लोपस्येति शेषः । णेः क्वौ लुप्तत्वादित्यन्वयः । अस्तु तर्हि क्वौलुप्तमित्यपि नित्यमेव । तावताऽपि लवमाचक्षाणो लौरित्यस्य सिद्धेरिति चेत् १ न, 'पिपठिषि' इत्यस्यासिद्धिप्रसङ्गात् । देवयतेरिति तु इद्द कैथटेन यदुदात्हसं क्वौ लुप्तं नेति सिध्यतीति, तस्यायमाशयः - यद्यपीद्द क्वौ विधि प्रत्यूत् सिद्ध:, तथापि तस्य स्थानिद्वारा अनादिष्टादचः पूर्वत्वेन णिलोपस्य स्थानिवद्भावाद् "अचो त्रिणति" (पा०सु०७-३-११५) इति बुद्धिप्रसङ्गः । तस्मात्वौ लुप्तं नेत्येव शरणम् । यत्तु 'लोपो व्योः" (पा०सु०६-१-६६ ) इति सूत्रे कण्डूयतेः क्यजन्तादप्रत्यये 'कण्डूः' 'कण्डवौ' इति व्युत्पादयन् कैयट आहअल्लोपस्य स्थानिवद्भावाद्यण् । तस्य ऊद् । न च ऊठि कर्त्तव्ये स्था• निवत्त्वेन प्रतिबन्धः स्यादिति वाच्यम्, वकारस्यादिष्टादचः पूर्वस्वादिति तत्तु स्थानिद्वारकं पूर्वत्वमनित्यमित्याश्रित्य । तद्द्वीत्या तु 'दयू:' इत्यपि सुसाधमेव ।
ननुभयथापि 'दयू:' इत्यत्र प्रत्ययलक्षणेन वृद्धिः स्यादेवेति चेत् १ न, बहिरङ्गस्य ऊठो वृद्धिं प्रत्यसिद्धत्वात् । एवञ्च स्थानिवद्भावे सत्य. पिन काचित्क्षतिः, बहिरङ्गत्वेनैव सर्वसमाधानात् । तस्माद् दयूरिति पक्षद्वयेऽपि सिद्ध्यतीत्येव तत्त्वम् । नन्वेकदेशविकृतस्यानन्यत्वाद्विव औत्स्यादिति चेत् ? न निरनुबन्धपरिभाषया अधातुग्रहणानुवृचैवा 'अक्षद्यूः' इत्यत्र न औदिति दिवमत्सूत्रे भाष्ये एव स्पष्टत्वात् । यद्यपि "उगिदचाम्'' (पा०सु०७-१-७०) इति सूत्रे अधातुभूतपूर्वादित्यर्थस्तथापीह शब्दाधिकार इति भावः । एतेन "हलि च" (पा०सू०८-२-७७) इति दीर्घः 'दीव्यति' इति नामधातुप्रकरणे कौमुदीप्रा. सादौ प्रत्युक्तौ । दिवोडिविरिति न्यासोहितसूत्रेण डिविरिति वदन् माधवोपि 'दिव्यति' इति हस्वमेवोपजगाम ।
प्रकृतमनुसरामः । द्विर्वचनादौ तु "ओ: सुपि” ( पा०स्०६-४-२३) इति यण् । 'दय्त्रौ' 'दय्वः' इत्यादि खलपूवतु । 'कण्डूः, कण्डुवौ; कण्डवः, इत्यादि तूवडेव संयोगपूर्वकतया यणोऽप्राप्तेरिति विकू ।
अत्रायं संग्रह :
-
सख्युर्गोमान् पदस्त्वं च क्वौ लुप्तस्य निदर्शनम । अनित्यत्वे पिपठिषि क्वौ विधौ लोर्द्वयोर्दयूः !!