________________
विधिशेषप्रकरणे वृद्धसंहासूत्रम् । शब्दार्थसमवेतसंख्याधमिधायिभ्यामिपरे इति व्याख्यानाद्वौणे न भवः ति-प्रियत्रीणाम्, अतित्रीणाम् । प्राधान्ये तु स्यादेव-“परमप्रया. णाम्" इत्याहुः । अत्र व्याख्याने प्रमाणं मृग्यम् ।
इह ‘पदाङ्गाधिकार' इति कर्तव्यम्, तदन्तग्रहणेनैव सकलेष्टसिखे. रित्युक्तं न विस्मर्त्तव्यम् ।
"प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्" (५० भा० २३) । इह प्रत्ययाक्षिप्तस्य धातुप्रातिपदिकाद्यवयवकसमुदायस्य प्रत्ययेन विशेषणात्तदन्तविधिर्लभ्यते। अङ्गसंज्ञासूत्रे यस्मात्प्रत्ययपि धिस्तदादिप्रत्यये इति योगं विभज्य परिभाषात्वेन व्याख्यानादंशान्त. रलाभः । इदं च संज्ञाविधौ न प्रवर्तते, "सुतिङन्तं पदम्" (पा. सू० १-४-१४) इति शापकात् । उत्तरपदाधिकारेऽपि न प्रवर्तते "हृदयस्य हल्लेखयदण्लासेषु" (पा० सु०६-३-५०) इति सूत्रे लेखग्रहणाझा. पकादिति वक्ष्यते । अस्यापवादमाह-"प्रत्ययग्रहणं चापशम्या" (पा० भा० २४) इति । यत्र पञ्चम्यन्तं प्रत्ययस्य विशेषणं तत्र तदन्त. ग्रहणं नेत्यर्थः । यथा “रदाभ्यां निष्ठातः" (पा० स. ८-२-४२) इत्य प्र। तेन 'एषत्तीर्णा' इत्यत्र तृधातोस्तकारस्य निष्ठान्तप्रत्ययावयवीभूः तस्य मत्वं न भवति । इह प्रघट्टके संज्ञाविधावुत्तरपदाधिकारे “रदा. भ्या" (पा० सू०८-२-४२) "स्यतासी ललुटोः" (पा० सु०३-१-३३) इत्यादौ च प्रत्ययो विशेष्यतयाऽऽश्रीयते, इतरत्र तु विशेषणतयेति फलितोऽर्थः। तदिदं सकलं सूत्रेणैव सिद्धतीति स्थितम् ।
सौत्रस्य तदन्तविधेर्वाचनिकमपंवादमाह वार्तिककार:-यस्मिन् विधिस्तदादावलग्रहणे । “अचि श्नुधातु" ( पा० स०६-४-७७ ) इती. यवङ च यथेह भवति थियो, रुवाविति, एवमिहापि सिद्धति श्रियः, भावः इति । तदन्तविध्यपवादस्तदादिविधिरतो विशेषणेनैव ।।
वृद्धिर्यस्थाचामादिस्तखम् ( पा० सू० १-१-७३)॥ यस्य समु. दायस्यावयवानामचा मध्ये प्राथमिकोऽज वृद्धिसंक्षकः स वृद्धसंक्षकः स्यात् । आम्रगुप्तीयः । "वृद्धाच्छः" (पा० सू० ४-२-११४)। अचा. मिति जातो बहुवचनं तेन द्वयोरपि भवति-शालीयः। एकस्यापि च भवति व्यपदेशिवद्भावात्-शा ब्राह्मणी, तस्या अयं शीयः। "वा नाम: धेयस्य" (का० वा०)-पौरुषेयं नाम तस्य वृद्धसंज्ञा वा स्यादित्यर्थः । उभयत्र विभाषेयम, देवदत्तादीनामप्राप्ते वामनादीनां च प्राप्त आरम्भात। देवदत्तीयाः, देवदत्ताः । “विधाय मूर्ति कपटेन वामनीम्" इवि श्रीहर्षः। "गोत्रोत्तरपदस्य च" । नित्यं वृद्धसंज्ञा पकायेति शेष्म।