________________
विधिशेषप्रकरणे घुसंशाप्रकरणम् । इति कृतात्वस्य मेडो निर्देशो शापकः । न च "माख्याने (जु आ०१०८८) इत्यस्यैवायं निर्देशो 'व्यतिमिमीते' इत्यादौ तस्यापि कदाचिधतीहारे वृत्तिसम्भवादिति वाच्यम्, अपूर्वकालार्थस्य क्त्वाप्रत्ययस्य "मार माने" इत्यस्मादनभिधानात् । अत्र च भायोकेरेष प्रमाणत्वादित्याहुः । एवश मेऊ इत्येव पठनीये "माङो व्यतीहार" इति गुरुकरणं "नानुब. न्धकतमनेजन्तत्वम्" (१०भा०७) इति ज्ञापनार्थमेव ।
भाष्यकारास्तु नायं दैप किन्तु दिवादिषु "दाप् शोधने" इत्येव प. ठिप्यतइत्याहुः । न च स्वरे भेदः 'दायति' इत्यादरुभयथाप्यादयुदात. वात् । ननु ताच्छीलिके चानशि 'दायमानः' इत्यत्र स्वरे भेदः । श्यनि धातोरादयुदात्तत्वं शपि तु चानशोऽन्तोदात्तत्वमिति चेत ? न, उमः यथाऽप्यन्तोदात्तत्वानपायात् । न च श्यन्स्वरस्य सतिशिष्टत्वेन प्राव ल्यमिति वाच्यम् “अन्यत्र विकरणेभ्यः" (प०भा०ए०) इति पर्युदासात्, "आत्ममाने खश्च" (पासू०३-२-४३) इत्यत्रत्यभाग्यकैयटबलेन खशीव चानश्यप्यन्तोदात्ततया निर्णयात्। स्थानिवत्सूत्रीयः कैयटग्रन्थस्तु खश्स. अस्थमाष्यस्वोक्तिभ्यां विरोधात्प्रामादिक इति वक्ष्यते । ध्यायत्यादयस्तु दिवादिग्वेवादन्तत्वेनन पठिताः "गणकार्यमनित्यम्" (प०भा०९६) इति झापयितुम् । तेन "न विश्वसेदविश्वस्तं" "पथिकवनिताः प्रत्ययादाश्वस. न्यः" ( मेन्दू०) इत्यादि सिद्धम् । यत्तु भाष्ये एकान्तत्वपक्षेऽपि न दोष इत्युपक्रम्य पकारलोपे कृते भविष्यति, दाप्त्वं तु भूतपूर्वमनुबन्ध. माश्रित्य व्युत्पादनीयमिति सिद्धान्तितम । तत्थं प्रत्यवतिष्ठन्ते-सत्य. प्येजन्तत्वे उपदेशे एजन्तत्वं कथमिति ? अत्रोच्यते-पित्करणसाम
ादुपदेशे एजन्तत्वाभावेऽप्यात्वप्रवृत्तिः । वस्तुतस्तुपदेशग्रहणं भाष्य कारो न मन्यते । तथाच तत्र वक्ष्यति-उपदेशग्रहणं न करिष्यते । यधुपदेशग्रहणंन क्रियते 'चेता' 'स्तोता' इत्यत्रापि प्राप्नोति । अत्राप्याचा. र्यप्रवृत्तिापयति न परनिमित्तस्यैच आत्वं भवतीति । यदयं क्रीजी. नां णावेच आत्वं शास्ति । नैतदस्ति सापक नियमार्थमेतत्स्यात् क्रीड. जीनां णावेवेति । यत्तर्हि "मीनातिमिनोतिदीङ ल्यपि च" (पास ६-१-५०) इत्यत्रैज्ग्रहणमनुवर्त्तयतीति। ननु 'प्रणिदापयति' इत्यत्राप्य. दाबिति प्रतिषेधः स्यादिति चेत् ? न, यथोहेशपक्षेऽन्तरङ्गत्वादावस्था यामेव घसंज्ञाया निवृतत्वात् । कार्यकालपक्षे तु घुसंज्ञाया णत्वसमान. देशतया पुकं प्रति णत्वघुसंज्ञयोरसिद्धत्वेन प्रागेव पुक् ततो घुसंशा न स्यादिति दोषः प्रसजत्येव । अत एव भाष्ये द्वेधा समाहितम-दाधा. ध्वविदिति वक्ष्यामि । यद्वा, बान्तावेतौ धातू मत्रमपि बान्तम् । चत्वेन
शब्द. प्रथम. 10.