________________
१४६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाह्निके—
सर्वत्र पकारो निर्दिष्टः । अतो 'दापयति' इत्यत्र नासौ निषेधः तस्यापि खादबान्तत्वाच्चेति ।
आद्यन्तवदेकस्मिन् अष्टा०सू०१-१-२१) । असहाये आदाविवान्त इव कार्याणि स्युः । औपगवः । यथा तव्यादीनां प्रत्ययाद्युदात्तत्वं प्रवर्त्तते, एवमिहाणोपि । आभ्याम् । यथा 'वृक्षाभ्याम्' इत्यादौ "सुपि च " (पा०सू०७ - ३ -१०२ ) इति दीर्घत्वं भवति, एवमिहापि । “ईङ्गतौ” दिवादिः - पयम् ।" अचो यत्'' (पा०सू०३ - ३ - ५७ ) इति अजन्ताद्धातोर्वघयिमा नो यत्प्रत्यये यथा 'चेयं'' जेयम्' इत्यादौ भवति तथेहापि । इणस्तु 'पतिस्तु' ( पा०सू०३-१-१०९) इति क्यपि ' इत्यम्' इत्येवरूपं न तु 'एयम्' इति । एकस्मिन्निति किम् ? सभासन्नयने भवः साभासन्नयनः । अत्र ह्याका· रस्यादित्वे सति तमेवाश्रित्य सभासन्नयनशब्दस्य वृद्धत्त्वं स्यात् । ततचाणं बाधित्वा "वृद्धाच्छः " (पा०सू०४ - २ - ११४) इति छः प्रसज्येत । ननु "वृद्धिर्यस्याचामादिः” (पा०सू०१-१-७३) इति सूत्रे आदिग्रहणस्यापीदमेव व्यावर्त्त्यम् । तत्सामर्थ्यादेव सभासन्नयनशब्दे वृद्धसंज्ञा न भविष्यतीति चेत् ? न, यदि हि वृद्धसंज्ञासूत्रे आदिग्रहणसामर्थ्यादनातिदेशिकस्य मुख्यस्यैवादेर्ग्रहणं तर्हि जानातीति शा ब्राह्मणीत्यादिरसहायोऽपि वृद्धो न स्यात् । तवश्च ज्ञाया अयं 'शीयः' इत्यादि न सि वत् । असति हि प्रकृतसूत्रस्थैकग्रहणे यत्रादिव्यपदेशो मुख्यो नास्ति असहाये मध्ये अन्ते च स सर्वोऽप्यविशेषादतिदेशस्य विषयः स्यात् । यदि त्वतिदेशसामथ्र्य ज्याशब्दे वृद्धत्वं तर्ह्यविशेषात्लभासन्नयनेऽपि स्यात् । वृद्धसंज्ञायामादिग्रहणं तर्हि व्यर्थमेवेति चेत् ? हन्तेवमतिदेशस्यादिग्रहणस्य च सामर्थ्यात्सर्वत्र विकल्पापत्तिः । इहैकग्रहणे कृते त्वन्य मध्ययोर्व्यावृत्त्या वृद्धसंज्ञायामादिग्रहणं सार्थकमिति दिक् ।
यतु न्यासकृतोक्तम् - अतिदेशसूत्रे एकग्रहणाभावे वृद्धसंज्ञासूत्रस्थमादिग्रहणमनातिदेशिकप्रतिपत्यर्थे सदसहायानां ज्ञादीनामेव वृद्ध. सज्ञां वारयेन तु सभासन्नयनस्य, सन्नयनेत्येतदन्तर्गतांश्चतुरोऽचोऽपेक्ष्यानातिदेशिक स्यादित्वस्य तत्र सत्त्वादिति । तच्चिन्त्यम्, परस्मि. न्सति यस्मात्पूर्वी नास्ति स आदिरिति सिद्धान्तररीत्या मध्यस्थेऽप्यादित्वविरहात् । इयानेव हि विशेषः - असहाये सत्यन्तविशेषणविरहाद्विशिष्टाभावः, मध्यस्थे तु विशेष्याभावाद्विशिष्टाभाव इति ।
. वार्तिककारस्तु लाघवादपूर्वत्वमात्रमादिशब्दस्य प्रवृत्तिनिमित्तमनुत्तरत्वमात्रं चान्तशब्दस्य न तु सत्यभ्यस्मिन्नित्यपि विशेषणं, गौरवात् । तथा चासहायेऽलि मुख्ययोरेवाद्यन्तयोः सम्भव इति मन्वानः
1