________________
विधिशेषप्रकरणे सर्वनामस्थानसंशाप्रकरणम्।
१८३
सु०५-३-७१) इत्यक न । उपकुम्भम्मन्यः, "खित्यनव्ययस्य' (पा०सु० ६-३-६६) इत्यनुवर्तमाने "अरुषि' (पा०सु०६-३-६७) इति मुम्प्र. तिषेधो न । उपकुम्भीभूतः "अस्य च्वौ" (पासू०७-४-३२) इत्यस्यौ. पसंख्यानिकः प्रतिषेधो न भवति ।
वस्तुतस्त्विदं सूत्रं न कर्तव्यम्, लुक उपचारनिवृत्तेश्चान्यथोपपत्तेरुकत्वात् । मुखस्वरनिवृत्तिः परमवशिष्यते । तत्र केचिदाहुः-मुखस्व. रोऽप्यते एव । यद्येतावत् प्रयोजनं स्यात् तत्रैवार्य ध्यानाव्ययीभावा. खेतीति भाष्यस्वरसादिति । अन्ये तु अनन्ययमव्ययं भवतीत्यन्वर्थसंक्षा. विज्ञानादेव मुखस्वरनिवृत्तिर्भविष्यतीति ।
स्यादेतत् । स्वरादित्वेनैव सिद्धत्वात "तद्धितश्च" (पासू०१-१३८) इत्यादिचतुःसूत्री व्यर्था । तत्र हि "तसिलादिस्तद्धित एधाए. र्यन्तः' इत्यादिना "व्यर्थाश्च" इत्यन्तेन भासिमौणादिकं वर्जयित्वा "तद्धितश्चासर्वविभक्तिः" (पा०सू०१-१-३८) इत्यस्यार्थः सञ्जयते । "कृन्मकारसन्ध्यक्षरान्ता" इत्यनेन "कृन्मेजन्तः" (पा०सू०१-१-३९) इत्यस्यार्थः सङ्गुह्यते। क्त्वातोसुन्कसुना" (पासू०१-१-४०) "अव्ययीभावश्च" (पासू०१-१-४१) इति सूत्रद्वयं तु स्वरूपेणैव पठ्यते इति । अत्राहु, पुनर्वचनमनित्यत्वज्ञापनार्थम् । तेन प्रागुक्तं "लुङ्मुखस्वरो. पचाराः" इति परिगणनं लभ्यते । “न लोकाव्यय' (पासू०२-३-६९) इत्यत्राव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेध इति वक्ष्यमाणं च लभ्यते इति । वस्तुतस्तु मास्तु चतुःसूत्री, "अव्ययीभावश्च" (पा०स०१-१-४१) इति तु गणेऽपि मास्तु, उत्तरीत्याऽन्वर्थसंक्षैव सिद्धेः। "तोसुन्कसुनोर. प्रतिषेधः" इत्येव लाघवात् पठ्यतामिति युक्तः पन्थाः।
शि सर्वनामस्थानम् (पा०सू०१-१-४२)। शि इत्येतत्सर्वनामस्थान संशं स्यात् । पारीणि; "सर्वनामस्थाने चासम्बुद्धौ" (पासू०६-४-८) इति दीर्घः। यदि तु प्रदेशेष्वेव "शौ च" इत्याधुच्येत तर्हि सुटि न स्यात् । अथ "शिसुटोः" इत्युच्येत तर्हि नपुंसकसुटोऽपि प्रहणं स्यात् । शिग्रहणं तु शसथै स्यात् । तस्मात्संज्ञा तावत्प्रणेया । महासंशाकरणं तु पूर्वाचार्यानुरोधात् । : सुडनपुंसकस्य (पा०सू०१-१-४३) । सुडिति प्रत्याहारः। नपुंसक भित्रस्य स्वादिपञ्चवचनानि उक्तसंज्ञानि स्युः । राजा, राजानौ, राजानः, इत्यादि । प्राग्वहीर्घः । अनपुंसकस्येति किम् ? सामनी "विभाषा डि. श्योः" (पा०सू०६-४-१३६) इत्यल्लोपाभावे दीर्थो न भवति । अनपुंसक स्येति पर्युदासस्तेनास्य सूत्रस्य स्त्रीपुंसयोरेव प्रवृत्तिरिति नपुंसके न