________________
१८२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिकेलोपो न भवति । तथा अगव्यात् , अनाव्यात, “यस्य हलः' (पासू० ६-४-४९) इति लोपो न । तथा अतिजरं कुलम्, अतिजरेण, अतिजरैः, अतिजराद् इत्यत्र अम् इन ऐस आत् इत्येतेषु अकारमुपजीव्य कृतेषु सत्सु जरसादेशो न भवतीत्यादि । अनित्या चेयं परिभाषा "कष्टाय क्रमणे" (पासू०३-१-१४) "न यासयोः” (पा०सू०७-३-४५) इत्यादि. शापकात् । तेन 'अग्निमान्' इत्यत्र "हस्वनुड्भ्यां मतुब्" (पा०स०६-११७६) इत्यन्तोदात्ताद्भस्वान्तात् परस्य मतुप उदात्तत्वे कृते शेषनिघा. तेन प्रकृतेरनुदात्तत्वं भवत्येवेति दिक् । 'गौः' 'ग्लोः' 'नौः' इत्यत्र नेदं सूत्रं प्रवर्तते उणादीनामव्युत्पन्नत्वात् । व्युत्पत्तिपक्षेऽपि "विरव्ययम्" (उ०सू०२-२३३) इत्युणादिसूत्रेण डोडोप्रत्ययान्ताश्व्यन्ता एवाव्यय. मिति नियमस्य कृतत्वात् ।
क्वातोसुन्कसुनः (पासू०१-१-४०)। एतदन्तमव्ययं स्यात् । कृत्वा । पुरासूर्यस्योदेतोः। पुरावत्सानामपाकोंः । "भावलक्षणे. स्थेण कृञ्वदिचरितमिजनिभ्यस्तोसुन्' (पा०सू०३-४-१६) । पुरा करस्य विसृपो विरशिन् । पुरा जत्रुभ्य आतृदः। "सृपितृदोः कसुन्" इति कसुन् । ___ अव्ययीभावश्च (पा०सू०१-१-४१)। अयमव्ययसंशः स्यात् । विषय. परिगणनं कर्तव्यम्-लुकि मुखस्वरोपचारयोनिवृत्तौ चेति । उपानि, प्रत्या ग्नि, “अव्ययादाप्सुपः"(पासु०२-४-८२) इति सुपो लुक् उपानि मुखः, प्रत्यनिमुखः । “मुखं स्वाङ्गम्" (पासू०६-२-१६७) इत्युत्तरपदान्तोदा चत्वे प्राप्ते "नाव्ययदिशब्दगोमहतस्थूलमुष्टिपृथुवस्सेभ्यः" (पासू० ६-२-१६८) इति प्रतिषेधः। तथाच "बहुवीही प्रकृत्या" (पासू०६-२-१) इति पूर्वपदप्रकृतिस्वर एव भवति । पूर्वपदं च समासस्वरेणान्तोदात्तम् । विसर्गस्थानिकस्य सकारस्योपचार इति प्राचां संक्षा । तन्निवृत्तौ यथाउपपयः कारः, उपपयः कामः । इह "अतः कृकमि" (पासू०८-३-४६) इति प्राप्तं सत्वम् "अनव्ययस्य" (का०वा०) इति पर्युदस्यते । इह मुख. स्वरनिवृत्तिरेव मुख्यं प्रयोजनम् । लुक् तु "नाव्ययीभावादतः" (पा० सू०२-४-८३) इति विशेषप्रतिषेधात् सिद्धः । उपचारनिवृत्तिरपि न प्रयोजनम् । “अतः ककमि" (पा०सू०८-३-४६) इत्यत्रानुत्तरपदस्थस्ये. त्यनुवृत्यैव तसिद्धः। परिगणनं किम् ? उपाग्भ्यधीयान । पराजय द्भावेन पाष्ठम् "आमन्त्रितस्य च" (पा०स०६-१-१९८) इत्याधुदात्तत्वं यथा स्यात् । तत्र व्ययानां प्रतिषेध उपसंख्यात उरधीयानेत्यादी मा भूदिति । तथा "उपानिकम्" इत्यादौ "अव्ययसर्वनानाम्" (पा०