________________
विधिशेषप्रकरणे अव्ययसंज्ञाप्रकरणम् ।
१८१
कृदन्तस्वादुत्पन्नानामपि सुपाम् "आम:" ( पा०सू०२-४-८१ ) इति लुग् भविष्यति । तत्र हि लेरिति नानुवर्त्तते । न चैवं तरबादेरपि लुगापत्तिः, अपरिसमाप्तार्थतया तरवाद्युत्पत्तेरेवाभावात् । अपरिसमाप्तार्थत्वं च संख्याक श्रदिविषय कोत्थिताकाङ्गत्वम् । अत एवानुप्रयोगः प्रार्थ्यते । आमन्तार्थगतप्रकर्षादिप्रतीतिस्तु अनुप्रयोग। दुत्पन्नेन तरबादिना भवि व्यति । अत एव सूत्रितं "कृञ्चानुप्रयुज्यते" (पा०सु०३-१-४०) इति । अनुशब्दो हि व्यवहितस्य विपरीतस्य च प्रयोगनिवृत्तये इति वक्ष्यते । यद्वा, पूर्वसूत्रोक्तनिष्कर्षरीत्या आमन्तात् सोरेवोत्पत्तौ हल्ङयादिलोपो भबिष्यति । अस्तु वा कृदन्तं यन्मेजन्तमिति वाक्यार्थः । आमन्तं हि प्रत्ययलक्षणेन कृदन्तं, श्रूयते च मान्तम् । न चैवं 'प्रतामौ' 'प्रताम ः ' 'लवमाचक्षाणो लौः' इत्यादावतिप्रसङ्ग इति वाच्यम्, स्वरादिषु प्रशान्शब्दस्य पाठेन धातोः प्रत्ययलक्षणेन कृदन्तत्वमुपजव्यिाव्ययसंज्ञा न भ वतीति ज्ञापितत्वात् । न च "मोनोधातोः (पा०सु०८-२-६४ ) इति नत्वे छते नैतन्मान्तमिति कथं ज्ञापकतेति वाच्यम् । नत्वस्यासिद्धत्वात् । न च “ज्ञान तेजने” (स्त्रा०३०९९५) इत्यस्यार्थान्तरवृत्तित्वे शानयतीत्यादिप्र योगसिद्ध्यर्थे चुरादित्यस्वीकारेण नित्यसन्नन्तत्वाभावात्तस्यैवायं स्वरादिषु पाठ इति वाच्यम्, अनभिधानात् तस्मात्किपोनुत्पत्तेः । अत्र च ज्ञापकत्ववर्णनपरं भाष्यमेव प्रमाणम् । अव्ययमित्यन्वर्थसंज्ञाबलादसत्त्वार्थस्य साम्यवाचिन एवं प्रशान् शब्दस्य तत्र ग्रहणं न तु शान्ति मद्वाचकस्य । तेन 'प्रशामौ' 'प्रशामः इत्युदाहरणं न विरुध्यते । स्वस्त्यादीनां तु सत्त्ववाचिनामपि पाठसामर्थ्यादव्ययत्वमिति विशेषः । अन्तग्रहणसामर्थ्यान्नित्ययोगे बहुव्रीहिराश्रीयते । तेनौपदेशिक एज् गृह्यते । नेह - 'आधये' 'चिकीर्षवे' 'कुम्भकारेभ्यः । वस्तुतस्त्वन्तग्रहणं व्यर्थम्, लक्षणप्रतिपदोक्त परिभाषयैवातिप्रसङ्गभङ्गात् । ननु वर्णग्रहणे इयं परिभाषा न प्रवर्त्तते । अन्यथा "एचोऽयवायावः " ( पा०सू०६-१७८) इत्यादावतिप्रसङ्गादिति चेत् ? न, एवमपि बहिरङ्गपरिभाषया "सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य " (प०भा०८६) इति परि भाषया वेष्टसिद्धेः । अयमन्त्रार्थः - सन्निपातः संश्लेषः, तनिमित्तो यो विधिः स तद्विघातस्यानिमित्तम् । तं सन्निपातं यो विहन्ति स तद्विघातस्तस्येत्यर्थः । एवञ्च सुप्सन्निपातलक्षणस्य " घेर्डिति" (पा०सू०७-३१११) इति गुणस्य ''बहुवचने झल्येत्" (पा०सू०७-३-१०३) इत्येत्वस्य चाव्ययसंज्ञां प्रति निमित्तत्वं नेत्यवधेयम् । तथा परिभाषायाः प्रयोज नान्तराण्यपि सन्ति दिलानं तूच्यते, श्रीपं कुलं तस्मै श्रीपायत्यत्रातो