________________
૨૦
शब्दकौस्तुभप्रयमा घ्वावप्रथमपादपष्टाहि के
वाक्यत्वे सामान्यापेक्षवचनविभक्तिनिय मेऽपि वा “अव्ययादाष्सुपः" (पा०सू०२-४-८२) इति सामान्यापेक्षज्ञापकाद्विर्माकसिद्धिस्तदा अविशे षात् सप्तानामपि विभक्तीनां त्रीण्यपि वचनानीति पक्षो लभ्यते ।
यदा तु द्वित्वे द्विवचनमिति सूत्रयित्वा एकवचनमित्येव पृथक् सूऽवते । तदन्यथानुपपत्त्या च कर्मण्येव द्वितीया न करणादौ द्वित्वबडुत्वयोरेव द्विवचनबहुवचनं न त्वकत्वं इत्यादिक्रमेण सजातीयापेक्षो नियमः । ततश्चाव्ययेभ्यः सकलविभक्तिप्राप्तावेकवचनमित्यनेन नियमः क्रियते । यत्रैकवचनं चान्यच्च प्राप्नोति तत्रैकवचनमेवेति । यदि वा सामान्यापेक्षनियमाश्रयणादव्ययादप्राप्तावेकवचनमिति सूत्रं क्रियते तस्य च "ङयाप्प्रातिपदिकात् " ( पा०सु०४ - १ - १) इत्यनेनैकवाक्यता । तथा च क्याबादिभ्यः कर्मादिष्वेकवचनं सिद्धमेवेति । एतत्सूत्रबला दव्ययेभ्व एव भवति तिङन्तात्तु न भवति । एकवचनमित्यस्याप्राप्तप्रा. पणार्थत्वेऽपि ज्या धुत्रेणैकवाक्यत्वात् प्रदेशान्तरे पाठसामर्थ्याच्च । स्वातन्त्र्येणापि ङयाप्सूत्रं विधायकमिति द्वित्वे द्विवचनमित्यादेर्नि - यामकत्वं सङ्गच्छते । तदाव्ययेभ्यः सर्वाण्येकवचनानीति द्वितीयः पक्षो लभ्यते ।
बदा तु द्वितीया कर्मण्येवेत्यादिः सामान्यापेक्षः ग्रत्वयनियमो ऽव्य - बेभ्यस्तु प्रथमैव । प्रथमा प्रातिपदिकार्थे एवेति नियमेन हि कर्माद्याविक्यस्थले एव सा निवार्य्यते । " ह्येकयोः" (पा०सु०१-४-२२) इति तु वथाम्यासमेव तत्र चैकत्वे एवैकवचनं न संख्यान्तरे इति सजातीयापेक्षप्रत्ययनियमपक्षस्तदा निःसंख्येभ्योऽव्ययेभ्यः प्रथमाया वचनत्रयमपि भवतीति तृतीयः पक्षो लभ्यते ।
त्रिष्वप्यमीषु पक्षेषु 'पचतिकल्पं ' 'पचतिरूपम्' इत्यादौ दोषः । तत्र हि प्रथमैकवचनमात्रमिष्यते । उक्तपक्षत्रयेऽप्यधिकं प्राप्नोति । तस्माद् द्वितीयपक्षरीत्या सकलैकवचनानि प्रापय्यैकवचनमित्येकत्वस्य विव क्षितत्वात् प्रथमातिक्रमे कारणाभावात्प्रथमैकवचनमेव कर्त्तव्यमिति सिद्धान्तः । एवञ्च सत्यपि सुत्रस्योक्तिसम्भवे 'पचतिरूपम्' इत्यादावतिव्याप्तिभयात्परिगणनमेव कर्त्तव्यं सूत्रं तु न कर्त्तव्यमिति स्थितम् ।
कुम्मेजन्तः (पा०सू०१-१-३९ । कुद्यो मान्त एजन्तश्च तदन्तमव्ययसं स्यात् । स्वादुङ्कारं भुङ्क्ते । वक्षेरायः । "तुमर्थे से" (पा०सू०३-४-९) इति वच्चेः सेप्रत्यये रूपम् । नन्वेवं कारयांचकार' इत्यामन्तस्य न प्राप्नोति, अत्रातिङ्भावितया लिटः कृत्वेपि मान्तत्वाभावात् । सत्यम, स्वरादिष्यामिति पाठात्सिद्धम् । यदि तु तत्र तद्धितस्यैव ग्रहणं तह