________________
विधिशेषप्रकरणे अव्ययसंज्ञाप्रकरणम् ।
शु इति पूजायाम् । शुनाशीरः ।
क्षमेति क्षान्तौ । अर्वागिति प्राचीने । शुदि शुक्लपक्षे । वदि कृष्णपक्षे। इति स्वरादिः। __ तद्धितश्चासर्वविभक्तिः (पासु०१-१-३८)। तद्धितान्तः शब्दोऽव्ययं स्यात् । यस्मात्सर्वा वचनत्रयात्मिका विभक्तिर्नोत्पद्यते किन्त्वेक. वचनम् । ततः, तत्र । तद्धित इति किम् ? एकः, द्वौ बहवः । अस. विभक्तिरिति किम् ? औपगवः । ननु 'गोदौ' 'वरणाः' इत्यादावतिव्याप्तिः । न च "लुब्योगाप्रख्यानात्' (पासू०१-२-५४) । "योगप्रमाणे च तदभावे दर्शनं स्यात् (पा०सू०१-२-५५) इति पठतः सूत्रकृतो मते नैते तद्धितान्ता इति वाच्यम्, एवमपि पञ्चैव पञ्चकाः शकुनयः, उभ. यो मणिः। पचतिकल्पं, पचतिरूपं, इत्यादावतिव्याप्तेर्दुरित्वादिति चेत ? अत्राह वार्तिककार:-"सिद्धन्तु पाठात् । तसिलादयः प्राक्पा. शपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः। मान्तः कृत्वोर्थः। तसिवती, नानाऔ" इति । न च "इवे प्रतिकृती" (पासू०५-३-९६) इत्यधिका. रे "प्रत्नपूर्वविश्वेमात्थाल्छन्दसि" (पा०सू०५-३-१११) इति विधाना. तदन्तस्यासङ्ग्रह इति वाच्यम्, “प्रकारवचने थाल्" (पासू०५-३-३३) इति प्रकरण एव "प्रतादिभ्य इवे थाल् छन्दसि' "प्रकारवचनैरिदम. स्थमुः" इति पठितुं शक्यत्वात् स्वरादिगणे आस्थालाविति पाठेन सिद्धत्वाच ! मान्त इति । भाम् अम् चेत्यर्थः । तसि-"प्रतियोगे पश्च. म्यास्तसिः" (पासु०५-४-४४) । "तेनैकदिक" (पासू०४-३-११२) "तसिश्च" (पासू०४-३-१९३) इति द्वावपि गृह्यते ।
स्यादेतत् । सुत्रमते कथमुक्तिसम्भवः यावता "कर्मणि द्वितीया" (पा०स०२-३-२) । "येकयोर्द्विवचनकवचने" (पा०सू०१-४-२२) इत्यादीनां स्वादिवाक्येनैकवाक्यतापक्षेऽव्ययेभ्यः स्वादीनां प्राप्तिरेष नास्ति । “अव्ययादाप्सुपः” (पासु०२-४-८२) इति शापकेन तु सर्वा विभकयः । उच्यन्ते, अव्ययेभ्यः सप्तानामपि विभक्तीनां त्रीण्यपि व. चनानि, तथा सप्तानामप्येकवचनान्येव, अथवा प्रथमाया एव वचन प्रयम, यद्वा प्रथमाया एकवचनमेवेति पक्षचतुष्टयं यद्यपि प्रन्थेषपल. भ्यते; तथापि प्रथमैकवचनमात्रमेवेति चतुर्थपक्षएव क्षोदक्षमः । तमे. व गृहीत्वा सूत्रस्याप्युक्तिसम्भवः स्पष्टः । इतरत्तु पक्षत्रिकमभ्यच्च. यवादमात्रेणोपन्यस्यते न तु तात्विकम् । तथाहि, यदि कर्मणि द्वितीय अभिहिते प्रथमैव, एकत्वे एकवचनमेवेत्यादिरर्थनियमः । यदि वा द्वितीया कर्मण्येवेत्यादिः प्रकृतार्थापेक्षो विभकिनियमः । यदि वा पक.