________________
११४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिके
दिभेदेन विभजनात् । अत एव कुंखु गुं घु इति यमचतुष्टयं न्या. सादावुदाहृतम् । 'कचटतपाः कुः' 'खछठशफाः खुः' इत्यादिपरिभाषा. माश्रित्य तत्तदुसरस्थाशरीरस्यापि कथञ्चित्प्रदर्शनतापर्यकं चदमिति ध्येयम् । अनुस्वारविसर्ग कपाश्चत्वारः, दुस्पृष्टश्च बहवृचानां प्रसिद्धः ईळे वोळ्हेति । इत्थं त्रिषष्टिः । लकारस्य प्लुतसम्भवात्तेन सह चतुः. षष्टिः । तदेतदुक्तं 'सम्भवतः' इति ।
हयवरट्सुत्रे क्षीरोदकारोऽप्याह--"वर्गान्त्येनन्त्यात्परे तयोर्मध्यवर्ती नासिकास्थानो यमः" इति । यत्तु कश्चिदाह-यमा आदेशाः । न च तेषामानुनासिक्यपक्षे 'तज्ज्ञः' 'तद् नन्ति' इत्यादौ "यरोऽनुना. सिके" [पा०सू०८-४-४५) इत्यनुनासिकादेशापत्त्या "नैव दोषो नैव प्रयोजनम्" इति भाष्यं विरुध्यतेति वाच्यम्, व्यवस्थितविभाषाश्रय. णादिति । तनुच्छम्, प्रागुक्तप्रातिशाख्यनारदीयशिक्षादिसकलग्रन्थ. विरोधन आदेशपक्षस्य गर्भस्रावणैव गतत्वात्, व्यवस्थितविभाषाकल्पनस्य/निर्मूलत्वाच्च । एतेन पतदीयलेखनप्रामाण्यम्रमेण "अनुपस. र्गात् सः" (पा०स०१-३-७६) इत्यादौ चवर्गाभावं दृढीकृत्य श्चुत्वाभावं साधयन्तस्तदनुगामिनोऽपि परास्ताः, नारदेन 'यज्ञः' इत्यत्र जकार द्वयस्य स्फुटमभिधानात् "नस्यतस्य त्रयस्यास्थनामनां पर्वणामिति" इत्यारण्यकप्रयांग इव सजातीयसमभिव्याहारान्न स्पष्टो भेद इति तु प्रसिद्ध शास्त्र । अत एव "व्यञ्जनपरस्यैकस्यानेकम्य वा विशेषोस्ति" इति माध्यम । व्यञ्जनात्परस्य व्यञ्जनं परं यस्येत्येवम्भूतस्य च दुर्लक्षो भेदाभेदविभाग इत्येवम्परनया तत्रतत्र कैयटेन व्याख्यातम् । अत एव च बहुषु पुस्तकेषु "तज्ज्ञापयत्याचार्यः" इति भाष्यग्रन्थः । “अनुपस. र्गात" (पा०सु०१-३-७६) इति सूत्रेऽपि केषाश्चित् श्चुत्वपाठः सम्मत एव । पाठान्तरं तु "अल्पाच्तरम्' (पासू०२-२-३४) 'आलुच्' 'तद. सहने' इतिवत्सौत्रत्वादसंहितया वा समाधेयमिति दिक्। ___ तदेतत्सकलमभिधाय प्रक्रियाप्रकाशे गुरुचरणैरुक्तम्-"तज्ज्ञानमित्यादौ तु श्चुत्वं भवत्येव" । यमच मुखनासिक्यः केवलनासिकास्थानो वेति मतद्वयम् "नासिक्या नासिकास्थानाः मुखनासिक्या वा" इति तैत्तिरीयप्रातिशाख्यात् । अनुनामिकविषये तु दर्शनत्रयम्-कृत्लो वों मुखन नासिकया चोचार्यत इत्येकम्, पूर्वों भागो मुखेन परो नासिकयेति द्वितीय, तद्वैपरीत्यात्तृतीयम् । द्वितीयतृतीययोर्भागमात्रस्य नासिक्यत्वेऽपि तदुपरागाद्भागान्तरमाप तद्वदवभासते । तथा च ना. सिकान्वयस्य भागमात्रविषयतया नासिकावचनप्रहणेन मुखनासिक्यो।