________________
विधिशेषप्रकरणे ऽनुनासिकसंज्ञासूत्रम् ।
एमेव यमस्य वर्णान्तरत्वम् । तथा नारदीयशिक्षायामपि
अनन्त्यश्च भवेत्पूर्वो घन्तश्च परतो यदि ।
तत्र मध्ये यमस्तिष्ठत्सवर्णः पूर्ववर्णयोः ॥ इति । सवर्णः सदृशः । अत्र पूर्ववर्णयोरिति द्वित्त्वमविवक्षितम् । 'यज्यः' इ. त्यादौ जकारद्वयसत्त्वेपि 'जमया अत्र वसवोरन्तदेवा इत्यादी जकार. द्वयाभावादिति तद्याख्यातारः । तथा ऋक्तन्त्रव्याकरणास्यस्य छान्दो. ग्यलक्षणस्य प्रणेता औदवजिरप्यसूत्रयत् "अनन्त्यान्त्यसंयोगे मध्ये यमः पूर्वस्य गुणः" इति । पूर्वस्य गुण इत्यस्य पूर्वभक्त इत्यर्थः । एते. नागमत्वं स्फुटीकरोति । तथा संयोगशङ्खलाख्यायां गौतमशिक्षायामपि "अथ चतुरक्षराणामुदाहरणं 'सयमायमाभ्याम् । सयमामतावद्यथा 'अग्निः' इति द्वौ गकारौ यमनकारो, 'यजज्ञः' इति द्वो जैकारी यमन: कारौ" इत्यादि । तथाऽत्रैव ग्रन्थारम्भे-"अयस्पिण्डो दारुपिण्ड ऊर्गापिण्डश्चेति त्रेधा संयोगं विभज्य यमसहितमयस्पिण्डम"इत्युक्त्वा,
"अन्तस्थ यमसंयोगे विशेषो नोपलभ्यते।
अशरीरं यमं प्राहुरन्तस्थः पिण्डनायकः॥" इत्युक्तम् । अन्तस्थोऽत्र वर्गपञ्चमः। अशरीरमिति स्वरभक्त्यादि. पद्वयञ्जकलिापविशेषशन्यमित्यर्थः। लक्षणवशेनैव तदीयस्थलविशेष. निश्चयसंभवाल्लिपिसंप्रदायप्रवर्तकाचायः ग्भक्तरिव यमस्यापि व्यञ्जकीभूता लिपिर्न कल्पितेत्यर्थः । 'रलयोरूमणि परे मध्ये स्वरभ. क्तिः' इति हि प्रसिद्ध शिक्षादौ । यत्र तु नैवंविधेन लक्षणेन पलावधा, रणं कर्तुं शक्यते, तत्रागत्या लिप्यन्तरं प्रवर्तितम् । यथा विसर्गादौ । पाणिनीयशिक्षायामपि ।
त्रिषष्टिश्चतुःषष्टिा वर्णाः सम्भवतो मताः । प्राकृते संस्कृते चापि स्वयं प्राक्ताः स्वयंभुवा ॥ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः।। यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः॥ अनुस्वारो विसर्गश्चक पौ चापि पराश्रयो । दुःस्पृष्टश्चेति विक्षया लकारः प्लुत एव च ॥
[पा०शि०३।४५Jइति । अत्र हि यमानां पृथगणनास्पष्टमेव वर्णान्तरत्वम् । गणना वि. स्थम-आइउऋ इति चतुर्णा हस्वदीर्घप्लुनभेदात्रैविध्ये द्वादश, लकार एकः, एचां दीर्घप्लुतभेदादष्टी, इत्थं स्वरा एकविंशतिः । स्पर्शाः पञ्चविंशतिः । यरलवशषसहेत्यष्टौ । यमाश्चत्वारः प्रथमयमद्वितीययमा.
शब्द. प्रथम. 8..