________________
११२ शब्दकौस्तुमप्रथमाध्यायप्रथमपादचतुर्थाहिजे
मुखनासिकावचनोऽनुनासिकः (पासू०१-१-८)। मुखसहिता नासिका मुखनासिका तयोच्चार्यमाणोऽनुनासिकसंशः स्यात् । संहा. प्रदेशा "माडोऽनुनासिकश्छन्दसि" (पा०म०६-१-१२६) इत्यादयः । अम्रआँ अपो वृणाना, गर्भारआँ उग्रपुत्रे ।
होच्यत इति वचनः, "कृत्यल्युटो बहुलम् (पा०मू०३-३-११३) इति बाहुलकात्कर्मणि ल्युट । 'राजभोजनाः शालयः' इतिवदिति वृत्स्य. नुसारिणः। ___ भाग्यकैयटयोस्तु उच्यतेऽनेनेति वचनम । करणे ल्युट सामान्ये नपुंसकम् 'शक्यं च क्षुदपहन्तुम् इतिवत् , "तेन तुल्यं क्रिया चेत्" (पासू०५-१-११५) "संस्कृतं भक्षाः" (पा०सू०४-२-१६) इतिषष। इदश्च"विशेषणानाचाजातेः" (पासू०१-२-५२) इत्यत्र वक्ष्यमाणेन पद. संस्कारपक्षे गुणवचनानामित्यादि वाचनिकमित्यनेन सह यथा न वि. रुध्यते, तथा तत्रैव वक्ष्यामः । ततो मुखनासिका वचनं यस्येति बहुः व्रीहिः । मुखेति किम् ? यमानुस्वाराणामेव मा भूदिति भाग्यम । तत्र वर्गवादितश्चतु पश्चमे परे तन्मध्ये पूर्ववर्णसमानाकारं वर्णान्तरं प्रा. तिशाख्येवागमत्वेन विहितं तद्यमसंक्षम् । यम इव यमः यमौ हि लोके प्रायेण समानाकारी भवतः। यथा पलिक्की' 'चखस्नतुः' 'अग्निः' 'अघनन्' इत्यत्र कखगघ इत्येभ्यः परभागे तत्तत्सदृशो यमागमः । य. तकं विवरणे "वर्गपञ्चमयुक्ताः प्रथमादयो यमाः" इति । तश्चिन्त्यम्, अयोगवाहत्वप्रतिपादकेन हयवरट्सूत्रस्थभाष्येण सह विरोधात्. केव. लनासिक्यत्वपरेण यमानुस्वाराणामेवेति भाष्येण सह विरोधाच्च । यथेदं भाष्यं न केवलनासिक्यत्वरं किन्तु आँ इत्यादीनां भागमात्रं नासिक्यं, यमानुस्वाराणां तु मुखनासिक्यत्वेऽपि प्रासादवासिन्यायेन नासिक्यत्वमप्यस्ति, न तु तदीयं भागमात्रं तथेत्येवंपरं; तथाप्यादि. तश्चतुर्णा तदसम्भव एव । किश्चैवं "नैव दोषो नैव प्रयोजनम्"इति त दुत्तरभाष्यग्रन्थविरोधः 'यद् नन्ति'इत्यादौ"यरोनुनासिके" (पा० सू०८-४-४५) इत्यस्य प्रवृत्त्यापत्या त्वत्पक्षे दोषस्योद्भटत्वात् । अत एव प्रातिशाख्ये "स्पर्शा यमानननुनासिका स्वान्परेषु स्पर्शेष्वनुनासिकेषु" (ऋ०प्रा०६-२९) इत्युपक्रम्य 'प्रदोधुवच्छ्म श्रुषु' इत्यत्र यमं निषेनुमा. रब्धे"न स्पर्शस्योमप्रकृतेः प(१)रस्ताद्यमापत्तिम्" (ऋ०प्रा०६-३०) इति सः परस्ताच्छब्दः प्रयुक्तः । “यमः प्रकृत्यैव सक्" "श्रुतिर्वा य. मेन मुख्यास्ति समानकाले" (ऋ०प्रा०६-३३) इत्यादिसूत्रान्तरेष्वपि स्प.
(१) मनीयाद्यः' सूत्र पाठः ।