________________
१४२
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपश्चमाह्निके
हणं, तदनुकरणे आवासम्भवात् । वार्तिकमते एजन्तानां दीङादीना. मात्वविधानात् । भाष्यमते त्वेनिमित्ते परतस्तद्विधानात् । तेन दीङ. स्तृजादावात्वे कृतेऽपि घुसंशाविरहात् 'प्रनिदाता' इत्यत्र "नेर्गद" (पासू०८-४-१७) इति,नित्यं णत्वं न भवति "शेषे विभाषा" (पा०सू० १-२-२७) इति वैकल्पिकं तु स्यादेव । तथा 'उपादास्तास्य स्वरः शिक्षकस्य' इत्यत्र "स्थाध्वोरिश्च" (पा०स०१-२-१७)रतीत्वं न भवतीति सूत्रकारस्य मतम् । नन्वस्मिन्पक्षे दाप्दैपावनुकृती न वा ? आयेऽनु. करणपर्युदासोभयसामर्थ्यात्तयोर्युसंज्ञाविकल्पः स्यात्, अन्त्ये अदा. बिति व्यर्थ स्यात् अननुकृतत्वादेव दाप्दैपो संज्ञाप्राप्तिविरहादिति चेत् ? न, अदावित्यस्मिन्नसति तयोरप्यनुकरणं सम्भाव्येत । न हि लक्षणैकचक्षुषा दोङादीनां दाप्दैपोश्च वैलक्षण्यं किञ्चिदनुभूयते यद लाद् प्रहणाग्रहणे व्यवस्थाप्येयाताम् । “व्याख्यानतो विशेषप्रतिपत्तिः" (प०मा०१) इति परमवशिष्यते । किनवगतिकगतिरेषाऽनभिधानवत् । न च तद्वलेन सिद्धस्य प्रत्याख्यानं शोभते ।
वार्तिककारमते तु प्रयोगस्थानामेव दाधारूपाणामिदमनुकरणम् । न चैवं प्रणिद्यति' 'प्रणिदयते' इत्यादौ शिति न स्यात्, आत्वाभावात्। तथा 'देङ रक्षणे" (भ्वा०आ०९६२) अदित "धेट' (भ्वा०प० ९०२)व्यत्यधित, 'प्रणिदाता' 'प्रणिधाता' इत्यादावपि न स्यादा. त्वस्य लाक्षणिकत्वात् "लक्षणप्रतिपदोक्तयोः प्रतिपदोकस्य प्रहणम्" (प०भा०११४) इति न्यायादिति वाच्यम्, वचनबलेनैव तत्समाधानात् । तथाच कात्यायनवार्तिकम् -."घुसंज्ञायां प्रकृतिग्रहणं शिदर्थम" इति । भारद्वाजीयास्तु पठन्ति-"शिद्विकृतार्थम्" इति। तथाच दाधाप्रकृतयो घु इति पठित्वा दाश्च धाश्च प्रकृतयश्चेति द्वन्द्वं कृत्वा सन्निधानाहाधामेव प्रकृतयः इति व्याख्येयम् ।
भाष्यकारास्तु वार्तिकं प्रत्याचख्युः । तथाहि, “नेर्गद'' (पा०सू० ८-४-१७) इति सूत्रे तावदवश्यं प्रकृतिग्रहणं कर्त्तव्यं प्रणिमयते' 'प्रण्य. मयत' इत्यत्रापि णत्वं यथा स्यात् । तदेव पुरस्तादपकृष्य घुप्रकृतिमा इति पठिष्यामः । घुश्च प्रकृतिश्च माश्चेति द्वन्द्वः । सनिधानाच्च पू. र्वोत्तरयोः प्रकृतिप्रेहव्यिते । न चैवं मीनातिमिनोत्योरपि माप्रकृतित्वा. ब्रहणापत्तिः, माङो उकारानुबन्धस्यैव तत्रावश्यं पठनीयत्वात । अन्य. था 'मामानः' इत्यत्रातिप्रसङ्गात् । तस्माद घुप्रकृतिमाङिति पाठेन 'प्रणि. चति' 'प्रतिदयते' इत्यादेः सिद्धत्वाच्छिदर्थे तावद् घुसंक्षायां प्रकृतिप्र. हणं न कर्तव्यमिति स्थितम् । भारद्वाजीयोक्तरीत्या 'विकृतार्थ कर्स.