________________
विधिशेषप्रकरणे घुसंज्ञासूत्रम् ।
१४१ स्वाच । अत एव "डग्श्व तुषु" (पा०सू०६-३-८९) इति सूत्रे "दृश्शे च" (का०वा०) इति वार्तिकमुपादाय क्सप्रत्ययः सादेशश्च छन्दस्येव, भाग्ये 'सरक्षासः' इत्युदाहृतत्वादिति केचिदिति व्याचक्षाणा हरदत्ताद. यश्छान्दसत्वं वदतां मते स्वस्यापरितोषमाविश्चक्रुरिति दिक्।
दांधाध्वदाप् (पासू०१-१-२०) । दारूपा धारूपाश्च धातवो घु संज्ञाः स्युर्दाप्दैपौ वर्जयित्वा । तत्र दारूपाश्चत्वार:-"दुदाम्" (जु०उ०१०९१) प्रणिददाति, "दाण" (भ्वा०प०९३०) प्रणियच्छति, "दो" (दि०१०१९४८) प्रणिधति, “दे" (भ्वा००९६२) प्रणि दयते । धारूपो द्वौ-"दुधाम्" (जु०७०१०९२) प्रणिदधाति, "धेट्" (भ्वा०प०९०२) प्रणिधयति वत्सो मातरम् । अदाबिति किम् ? "दाप् लवने" (अ०प०१०५९) दातं बर्हिः। लूनमित्यर्थः । घुत्वाभावाद् "दोदोः " (पासू०७-४-४६) इति न प्रवर्तते । "देप् शोधने" (भ्वा०५०९२४) अवदातं मुखम् । इह घुत्वाभावाद "अच उपसर्गातः". (पासू०७-४-४७) इत्येतन्न । घुप्रदेशा "नेर्गद. मद" (पा.सु०८-४-१७) इत्यादयः । इह दोदेधेटामनुकरणानि व्यव. स्थाप्य तत्र "प्रकृतिवदनुकरणम्" (प०भा० ) इत्यतिदेशाद् "आदेच उपदेशेऽशिति" (पासू०६-१-४५) इत्यात्वं क्रियते, अनैमित्तिकमात्वं शिति तु प्रतिषेध इति सिद्धान्तात् । न चैवं विभक्तरुत्पत्तिर्न स्यादधा. तुरिति प्रातिपदिकसंज्ञानिषेधादिति वाच्यम् , अधातुरिति पयुंदा. सोऽयं न तु प्रसज्यप्रतिषेधः। अस्ति चेह स्वाश्रयमधातुत्वम् । यद्वा, "यत्तदेतेभ्यः" (पा०पू०५-१-३९) इत्यादाविवेहापि कार्यविशेषपुर. स्कारेणैवातिदेशप्रवृत्यप्रवृत्ती भविष्यतः । ततश्चतुर्णा दारूपाणां द्वयोश्च धारूपयोरेकशेषं कृत्वा द्वन्द्वः कर्तव्यः । 'प्रणिदाता' इत्यादौ कृतात्वानां दोदेधेटां तु स्थानिवद्भावात्सिद्धं घुत्वं लक्षणप्रतिपदोक्तपरि. भाषाया "निरनुबन्धकग्रहणे न सानुबन्धकस्य" (१०भा०८२)इत्यस्याश्च नेह प्रवृत्तिः, सर्वेषां स्वरूपेणैवानुरुतत्वात् । अत एव दारयतिधारय. त्यो तिप्रसङ्गः, तयोरनुकरणे आत्वालम्भवेनेह इधृ इत्यनयोरनुपात. स्वात् । ननु कृतात्वस्य सूत्रे निर्देशात् 'प्रणियति' 'प्रणिधयति' इत्यादौ चास्वविरहात्कथं घुत्वमिति चेत् ? भ्रान्तोऽसि । न हि वयं छतात्व. मनुकुर्मो येनोक्तदोषः स्यात , अपि तु वेदोधे इत्येङतेम्वेवानुक्रियमाणेषु लक्षणवशनिष्पनमात्वमित्युक्तम् । न च लक्षणेन स्वरूपान्यत्वेऽप्यनु. करणता हीयते "सख्युरसम्बुद्धौ" (पा०सू०७-१-९२) इत्यत्रापि सखि. रूपमतीते, 'गवित्ययमाह' इत्यत्र गोशापप्रतिश्च । दीडस्तु नेह प्र.