________________
विधिशेषप्रकरणे घुसंशासूत्रम् ।
१४३
व्यम्' इति पुनरवशिष्यते । तदपि न, "गामादाग्रहणेव विशेषः" (प०भा० १९५) इति परिभाषयैव लाक्षणिकस्यापि दारूपस्य घुसंशासिद्धेः । अस्यां च परिभाषायां दैपः पित्त्वं लिङ्गम् । तद्धदाबिति सामान्यग्रहणार्थ क्रि. यते लाक्षणिकत्वादेव घुसंक्षायां दैप्ग्रहणाभावे तु किं निषेधे सामान्य. ग्रहणार्थेन पित्वेन ? न चैवमपि धेटो घुसंशा न स्यादेवति वाच्यम् "दो दद घो', (पासू०७-४-४६) इत्यत्र धेटो निवृत्यर्थ क्रियमाणेन द इत्यनेन धेटोऽपि घुसंशाशापनात । न च दधातिनिवृत्यर्थ द इत्युकमिति वाच्यम्, तत्र दधातेहिः' (पासू०७-४-४२) इति ह्यादेशविधा: नादेव दद्भावाप्रसङ्गात् । नन्वेवमपि "गामादाग्रहणेष्वविशेषः" (१०मा० ११५) इत्येतेन लक्षणप्रतिपदोक्तपरिभाषाया "निरनुबन्धकग्रहणे"(प. भा०८२) इति परिभाषायाश्च यथा बाधस्तथार्थवद्रहणपरिभाषाया अपि बाधः स्यात् । तथाच 'प्रनिदारयति' 'प्रनिधारयति इत्यत्राप्यतिप्रसा इति चेत् ? न, गदादीनां य उपसर्गस्तत्स्थानिमित्तादुत्तरस्य तानेव गदादीन् प्रत्युपसर्गस्य नेरिति व्याख्यानात् । दारयतिधारयत्यवयवयोस्तु दाधारूपयोरनर्थकत्वान्न तं प्रत्युपसर्गत्वम्, यक्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इति वक्ष्यमाणत्वात् । न चैवं 'प्रणिदापयति' 'प्रणिधापयति' इत्यत्रापि णत्वं न स्यादिति वाच्यम्, तत्र पुगागमात्पूर्व दा धा इत्यवस्थायां घुसंहाप्रवृत्तौ पुगविशिष्टस्यापि घुग्रहणेन ग्रहणात्। 'अनागमकानां सागमका आदेशाः' इति पक्षे तु स्थानिवद्भावेन घुसंशा. प्रवृत्तेः । नन्वनान्तर्यमेवैतयोरान्तर्य सम्प्रयोगो वा नष्टाश्वदग्धरथव. दिति स्थानन्तरतमसूत्रस्थभाष्यरत्या दारयत्यादेरपि दापयत्यादिसा. म्यमेव, निष्पन्नस्याणो रपरत्वाभ्युपगमेन रेफपुकोरविशेषादिति चेत् ? सत्यम, "सिद्धन्तु प्रसङ्गे रपरत्वात्" इत्युरणपरसूत्रस्थवार्तिकरीत्या समाधानं कृतम् । उक्तभाष्यरीत्या तु प्रसक्तो दोषः प्रागुकसूत्रकारमत. माश्रित्योद्धर्तव्यः। न हि धृ इत्यनयोरनुकरणे आत्वं लभ्यते इति दिक् ।
इदं त्ववधेयम्, 'प्रणिदापयति' इत्यत्राप्युपसर्गयोः प्रकृत्यर्थविशेष. णत्वे सत्येव "नेर्गद" (पासू०८-४-१७) इति नित्यं णत्वं, ण्यर्थविशेष. कत्वे तु घुसंशकं प्रत्यनुपसर्गत्वात् “शेषे विभाषा" इति विकल्प एव न तु नित्यं णत्वमिति।
स्यादेतत् , 'उपदिदीषते' इत्यत्र "सनि मीमा" (पासू०७-४-५४) इतीमभावः स्यात्, वार्तिककृता घुसंज्ञायां प्रकृतिग्रहणात । सूत्रकार. भाग्यकारयोस्तु नासौ दोषः, सूत्रकृता दीडोननुकृतत्वात, भाज्यमते गत्वे प्रतिग्रहणेपि घुसंज्ञायान्तद्विरहादिति चेत् ? सत्यम्, धार्मिक