________________
११६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थातिके
स्वे प्रयत्नो येषामिति त्रिपदो बहुव्रीहिः । आस्ये इति विशेषणाद्वाहप्र. यत्नव्युदासः । आस्य इत्येकत्वं विवक्षितं, तद्धितान्तास्यशब्दोपादा. नसामर्थ्यात । तेन भिन्नस्थानानामर्थाद् व्युदासः । यद्वा, तुल्यः आस्ये तुल्यास्या, मयूरव्यंसकादित्वात्साधुः । तुल्यास्यः प्रयत्नो यस्यति विन. हः । यद्वा, आस्ये प्रयत्नः आम्यप्रयत्नः, स तुल्यो यस्येति । एकत्ववि. वक्षादिकं प्राग्वत् । तदेवं समासचतुष्टयमपि भाष्ये स्थितम-"द्वन्द्वग. भों बहुव्रीहिः, त्रिपदो वा, पूर्वभागे तत्पुरुषगर्भः, तदुत्तरभागे वा" इति ।
तुल्य शब्दस्य सम्बन्धिशब्दत्वाच्च येन सह तुल्यस्थानप्रयत्नं तेन सह सवर्णमिनि लभ्यते । नहि माता पूज्यत्युक्ते स्वसुनमाता भार्या पू. ज्यते किन्तु पूजकस्यैव मातेति दिक् । __तुल्यस्थानमिति किम् ? तुल्यप्रयत्नानामपि कचटतपानां मा भूत् । तेन 'ती' इत्यत्र "झरो झरि" (पासू०८-४-६५) इति पकारलोपोन मवति । यत्नग्रहणं किम् ? चकारशकारयोर्मा भूत । सति हि सावायें 'वाक्प्रच्योतति' इत्यत्र शकारलोप: स्यात् । आभ्यन्तरत्वविशेषणमप्ये. तदर्थमेव । अस्ति हि श्वासाघोषविवाराख्यबाह्यप्रयत्नसाम्यं चशयोर. पि। ननु अल्पप्राणत्वमहाप्राणत्वकृतो भेदोऽस्तीति चेत ? किं ततः । नहि सर्वप्रयत्न साम्यं विवक्षितुं शक्यम् 'अङ्कितः' इत्याद्यसिद्धिप्रस. जात , कङयोरपि बाह्यप्रयत्नभेदात् । सर्वप्रयत्नसाम्यं हि स्वस्य स्वेनैवायाति न तु परेण । तथा च सवर्णसंज्ञाप्रणयनमपि व्यथै स्यात्, "अणु. दित्तुल्यास्यप्रयत्नस्य" इत्युक्तौ सर्वसामञ्जस्यात् । "झरो झरि" (पासू० ८-४-६५) इत्युक्तं "हलो यमां यमि" (पा०सू०८-४-६४) इत्यत्रेव यथासं. ज्यप्रवृत्त्या 'माहात्म्यम्' इत्यादी मकारस्येव 'शिण्ढि' इत्यादौ डकारस्थापि लोपो न स्यादिति हि सिद्धान्ते सवर्णग्रहणं कृतम् । स चाव्या. प्तिदोषो यावत्प्रयत्नसाम्यविवक्षायां तदवस्थ एव स्यात । अथ यावद्वा. हासाम्यं यावदाभ्यन्तरसाम्यं वा विवक्ष्येत एवमपि 'मधुलिट्रस्थानम्। इत्यत्र "झरोझार" (पासू०८-४-६५) इति सलोपः स्यात्, सकारथकारयोः श्वासाघोषविवारमहाप्राणत्वरूपबाहाप्रयत्नचतुष्टयेनापि साम्यात् ।
अथ स्थानप्रयत्नविवेकः-अकुहविसर्जनीयाः कण्ठ्याः । इचुयशा. स्तालव्याः । ऋटुरषा मूर्द्धन्याः । लतुलसा दन्त्याः। सप्पध्मानीया ओ. ठ्याः । एऐ कण्ठ्यतालव्यौ । आओं कण्ठ्याष्ठ्यौ । वकारो दन्त्यो. प्ठ्यः । जिव्हामूलीयो जिव्हामूलस्थानः । अनुम्बारो नासिक्यः ।
यत्नो द्विधा-आभ्यन्तरो बाह्यश्च । तत्राभ्यन्तरश्चतु --स्पृष्टात ईषत्स्पृष्टता विवृतता संवृनता चेनि । तत्र स्पृष्टता स्पर्शानाम् । ईष.