________________
विधिशेषप्रकरणे प्रगृह्यसंज्ञासूत्रम् ।
विप्रकृष्टत्वात् । तस्माद्यथाव्याख्यानमेव मनोरमम् ।
अत्र वृत्तिकाराः - " मणीवादीनां प्रतिषेधो वक्तव्यः" इति पठित्वा 'मणीव' 'रोदसीव' 'दम्पतीव' 'जम्पतीव' इत्युदाजहुः । मुनित्रयानुक्तत्वादप्रमाणमिदमिति कैयटादयः । एवं वदद्भिः समानन्यायतयाऽन्येषां मुनित्रयानुक्तानां वृत्तिकृन्मात्रोक्तानां तुरीयस्येष्टिः, शसिदुहिगुहिभ्यो वा, क्रमेके छन्दास, भाषायां च अङ्गगात्रकण्ठेभ्यस्त्विष्यत इत्यादीनाम• नादर्त्तव्यतोक्ता | मणवोष्ट्रस्य लम्बेते इति तु इवार्थकेन वाशब्देन नि. र्वाह्यमित्याहुः । न्यासकारस्तु "सम्बुद्धौ शाकल्यस्येतौ" (पा०सू०१-११६) इति शाकल्यग्रहणस्य सिंहावलोकितन्यायेनेह सम्बन्धाद्वयवस्थि तविभाषाश्रयणाच्चेदं लभ्यते इत्याह । केचित्विवार्थेयं वशब्दः प्रयुक्तो भीमो भीमसेन इतिवत् । 'कादम्बखण्डितदलानिव पङ्कजानि' इत्यादिवश्चेत्याहुः । वस्तुतस्तु "वद्वा यथा तथेवैवं साम्ये" (अ०को०३-४-९) इत्यमरग्रन्थे ववेति पाठमाश्रित्य " शात्रवं व पपुर्यशः” (र०वं०४-४२) इति कालिदासप्रयोगस्य तयाख्यातृभिरुदाहरणात्सर्वे सुस्थम् । युक्तंश्चाय. मेव पाठः प्रातिपदिकप्रक्रमे तद्धितस्य वतेरननुगुणत्वात् । एतेन - स्फुटोत्पलाभ्यामलिदम्पतीव
विलोचनाभ्यां कुचकुड्मलाशया । निपत्य बिन्दू हृदि कज्जलाबिलौ मणीव नीलौ तरलौ विरेजतुः ॥ नै०)
इति श्रीहर्ष प्रयोगोऽपि गतार्थः ।
१२७
अदसो मात् (पा०सू०१ - १ - १२) । अस्मात्परावीदूनौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । न चामू इत्युदाहरणं पूर्वसूत्रेण गतार्थमिति वाच्यम्, तस्मिन् कर्त्तव्ये मुत्वस्यासिद्धत्वात् । "अदसो मात्” (पा०सु०१-१-१२) इति सूत्रं प्रति तु नासिद्धत्वम्, आरम्भसामर्थ्यात् । तथा च वार्त्तिकम् - "आश्रयात्सिद्धत्वं च यथा रोरुत्वे" इति । पुंवद्वचनमेवोदाहरणं स्त्रीनपुंसकयोर्द्विवचने तु मुत्वस्यासिद्धत्वेऽप्येका रान्तत्वात्पूर्वेणैव सिद्धा संज्ञा । ततञ्च प्रकृतिभावोऽनुनासिकपर्युदासश्री सिद्ध एवेत्यवधेयम् ।
यत्तु हरदत्तेनोक्तम् “अणोऽप्रगृह्यस्य" (पा०सू०८ -४ -५७) इत्यत्रोप• स्थितेन पूर्वसूत्रेण संज्ञायां क्रियमाणायां मुत्वस्य सिद्धत्वाल्लिङ्गत्रयेपि द्विवचनेऽनुनासिकपर्युदासः पूर्वेणैव सिद्धः । एतत्सूत्रारम्भस्त्वद्विवच· नार्थः, पुंसि द्विवचने प्रकृतिभावार्थश्चेति । तच्चिन्त्यम्, प्लुतसंग्रहानुरोधन पूर्वसूत्रे यथोद्देशपक्षस्यैव स्थापितत्वात् । तस्मात् पुंसि द्वि.