________________
१२६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादपश्चमाह्निकेरजतभ्रमोऽनाहार्यः प्रवर्तकः, इह तु शास्त्रप्रामाण्यादाहार्यारोपोऽपि न. तच्छास्त्रप्रवृत्तावप्रवृत्तौ च नियामक इति। तदेतत्कय्यटेनैव स्फुटीकृतम्। यदाह शास्त्रासिद्धत्वाश्रयणाच प्लुतबुद्धावसत्यां प्रगृह्यत्वे विधीयमाने द्विमात्रत्वबुद्धिः प्रवर्तते । तथा च वक्ष्यति-"असिद्धवचनमुत्सर्गलक्षण. भावार्थमादेशलक्षणप्रतिषधार्थच" इति। "षत्वतकोरसिद्धः"(पा०स०६१-८६) इत्यतत्सूत्रस्थं वार्तिकमिदम् । उत्सृज्यते निवर्त्यते आदेशेनेत्युत्स. र्गः स्थानी, स लक्षणं निमित्तं यस्य कार्यस्य तुगादेस्तस्य प्रवृत्यर्थमिः त्यर्थः । तथा चैकरूपयार्थ सर्वत्र शास्त्रासिद्धत्वमेवेति भावः । एतेन य. स्यानेन संज्ञा कृता न सोऽनुनासिकविधौ स्थानीति प्रथमदूषणमु.
धृतम् । यदपि 'दण्डाढकं' "सुश्लोकेति" इत्यादावादेशः प्लुतः श्रूयेने. ति । तदपि न, उक्तरीत्या तत्राप्यादेशेन प्लुतस्यैव निवृत्तेः। प्लुतो मयाऽपहियते इति बुद्धिः परं तस्य नास्तीत्यन्यदेतत् ।
यत्तु षष्ठे भाष्यकारो वक्ष्यति-"सिद्धः प्लुतः स्वरसन्धिषु" इति, तविहानुनासिकपर्युदासानुरोधाधथोद्देशपक्ष एवाश्रयणीय इति स्थि. ते स्वरसन्धिसामान्यापेक्षवापकाश्रयणेऽपि न दोष इत्याशयेन, न तु सामान्यापेक्षतायामेव किञ्चिदाग्रहे बीजमस्तीति दिक् ।
ननूदाहरणेवीदादिकमेव द्विवचनं न तु तदन्तमिति चेत् ? , व्यप. देशिवद्भावेन तदन्तत्वात् । नन्वदिन्तं द्विवचनान्तमित्येव कथं न व्याख्यातम् ? एवं हि सति व्यपदेशिवद्भावो नाश्रयणीय इति चेत ? न, 'कुमार्योरंगारं कुमार्यगारं 'वध्वोरगारं वध्वगारम्' इत्यत्र प्रत्ययलक्ष. जेन द्विवचनान्तेऽतिव्याप्तेः "संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति" (५०मा०२७) इति “सुप्तिङन्तं पदम्" (पासू०१-४-१४) इत्यत्रान्तग्र. हणेन शापितत्वाच्च । एतेनेदाद्यन्तं यद् द्विवचनं तदन्तं प्रगृह्यं, कुमा.
र्यगारादौ तु सकारान्तं द्विवचनं न स्वीदाद्यन्नमिति परास्तम्, संज्ञा. विधौ प्रत्ययग्रहणे तदन्ताग्रहणात् । यत्स्वस्मिन्पक्षे दूषणान्तरमुक्तम्'अशुक्ले शुक्ले समपद्येतां शुक्ल्यास्तां वस्त्रे' इत्यत्र शब्दान्तरप्राप्त्या ऽनि. त्यं लुकं बाधित्वा परत्वाच्छीभावे कृते तस्य लुकि प्रत्ययलक्षणेन शुक्लीत्यस्य प्रगृह्यता स्यादिति । तन्न, "अन्तरङ्गानपि विधीन् बहिरनो लुग्बाधते" (प०भा०५२) इति परिभाषयौकारस्यैव लोपात्, त. स्य चेदाधन्तस्वविरहात् । अस्तु तर्हि इंदादि विशेष्यं, तथा च द्विवच. नसंझं ईदादि प्रगृह्यमित्यर्थ इति चेत् ? न, 'गले' इत्यादेः सिद्धावपि 'दृश्यते' स्याद्यसिद्धः। द्विवचनाषयवो ह्ययमेकारो न तु द्विवचनम् । किश्च प्राह्यमित्यस्य सन्निहितत्वाद् द्विवचनमेव संक्षि न त्वीदादिः,