________________
२४८
शब्दकौस्तु मंप्रथमाध्यायप्रथमपादेऽष्टमाहि के
यते' इति व्यावर्त्य न सङ्गच्छते, घ्रीय् ध्मीय् इति द्वितीयाजवधिकस्यै • काचः कार्यितया योऽपि द्वित्वनिमित्तत्वाभावादिति चेत् १ सत्यम्, 'अधिजगे' इत्येवाज्ग्रहणव्यावश्यमस्तु । तत्र हि "गाङ् लिटि" (पा०सु०२४-४९)" इति द्विलकारकनिर्दे शमाश्रित्य लावस्थायामेव गाङादेश इति भाष्ये एव स्पष्टम् । इदञ्च वार्त्तिकमतमनुसृत्योक्तम, तत्र लिटि लिङीत्यादीनां परसप्तत्रीत्वाभ्युपगमात् । भाष्यमते त्वार्द्धधातुकीयाः सामान्येन भवन्तीत्यभ्युपगमाल्लिटीत्यादयोपि विषयसप्तम्येवेत्युक्तं स्थानिवत्सूत्रे । तन्मते त्वचीत्यस्य 'जग्ले' इत्यादि व्यावर्त्य बोध्यम् । तथाहि, “आदेच” (पा०सु०६-१-४५ ) इति सूत्रेऽशितीति परसप्तमीति पक्षे श (१) इत् इति कर्मधारयाश्रयणाद् "यस्मिन्विधिस्तदादावल्ग्रहणे" (प०मा० ) इत्यस्य प्रवृत्त्या आदिशिनोऽन्यस्मिन्परे विधीयमानमात्वं लावस्थायां क्रियते । अतो न स्थानिवत् । न चान्तरङ्गत्वात्तिवादिष्वेशि च कृते आत्वं स्यात्तथा च स्थानिवत्त्वं दुर्वारमिति वाच्यम्, “न सम्प्रसारणे सम्प्रसारणंल्लिटि वयो यः " ( पा०सू०६ - २ - ३७/३८) इति द्विलकारक निर्देशमाश्रित्य तं च तत्रानुपयुक्तत्वादिहानुवर्त्य लिटि तु लावस्थाया मेवेत्यात्वविधौ व्याख्यानात् । कथं तर्हि 'जेघ्रीयते" देध्मीयते' इति भाष्यवृत्यादिषु प्रत्युदास्दतमिति चेत् १ प्रातिशाख्यरीत्येत्यवेहि । तथाहि, "अनुस्वारो व्यञ्जनं चाक्षराङ्गम् " ( ऋ०प्र०१ - ५ ) इत्युक्त्वा "स्व. रान्तरे व्यञ्जनान्युत्तरस्य (ऋ० प्रा० १-५) इति सूत्रितम् । एवञ्च 'नेनि' जति' 'अनेनिजुः' इत्यादावेकाव्यत्य धातोः सम्पूर्णस्य द्विर्वचनादभ्यः स्ताश्रयम् अद्भावजुसादि सिध्यतु । द्वधच्के तु मध्यवर्तिनां हलामुत्तराङ्गत्वात्प्रथमाजन्तमेव द्विरुच्यताम् । यथा दरिद्रातौ द इति, जागत जा इति । न चैतावता कचिद्रूपेऽनिष्टमापद्यते, येन प्रातिशाख्यपरिभा षामुपेक्ष्य 'नटभार्यावद्व्यञ्जनानि' इति चाश्रित्य 'दर्' 'जाग्' इत्यादि द्विरुच्यते । अत एव 'चतुरश्छ्यतावाद्यक्षरलोपश्च" (का०वा० ) इति सङ्गच्छ ते इति दिक् । यदा तु षाष्ठभाष्यवार्त्तिकरीत्या द्वितीयाजवधिक एकाच् गृह्यते, "गाङ् लिटि" (पा०सु०२-४-४९) इति च विषयसप्तम्याश्रीयते, अनैमित्तिकमात्वं, शिति तु प्रतिषेध इति वा, अशितीति विषयसप्तमी चा आश्रयते, तदा 'जेघ्रीयते' 'अधिजगे' 'जग्ले' इति त्रिविधस्यापि व्यावर्त्यस्यासम्भवादचीत्यस्य फलं किमिति विभावनीयं सूरिभिः ।
स्यादेतत् । भसेः क्कसौ"घसिभसोईलि" (पा०सू०६-४-१००) इत्युपधालोपे कृते द्वित्वं मा भूदित्येतदर्थमज्ग्रहणं भविष्यतीति चेत् १ सत्यवति वा द्वित्वे प्लानिति श्रुतौ विशेषाभावात् । ननु दुर्लक्ष्योऽपि