________________
१७४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिके
१-१-१४) इति प्रगृह्यसंशा स्वरादीनामप्येकाचां प्रसज्येत । स्तो हि स्वराविषु “किमोऽत्" (पासू०५-३-१२) "दक्षिणादाज" (पासू०५३-३६) इत्येकाचौ तद्धितौ । केन्प्रभृतयस्तु कृत एकाचः। यदि तु "चादिरेकाजनाङ्” इति क्रियते, तदा चादीनामसत्त्ववचनत्वं विशे. षणं न लभ्येत । ततश्चास्यापत्यमिमदनस्तस्य सम्बोधनम् “ए अध" इत्यत्र प्रगृह्यत्वं स्यात् । ननु "चादयोऽसत्वे" (पासू०१-४-५७) इत्य. त्रासत्वइति पाठविशेषणम् । तथाहि, चादय इति योगो विभज्यते । चादयो निपातसंज्ञाः स्युः। ततो ऽसत्वे । इह शास्त्र चादयो ऽस. त्वे शेयाः । ततश्च चादीनां सत्त्ववाचिनां पाठात्पयुदासस्तेन 'ए अव' इत्यादौ न दोषः । एवं चोभे संझे न ? कर्तव्ये अव्ययं, निपाता इति । किन्तु “प्राग्रीश्वरान्निपाताः" इति वा "अन्ययानि" इति वा मुज्यताम् । ततः स्वरादीनि । "तद्धितश्चासर्वविभक्तिः" (पासू०१-१-३८) इत्यादि "अव्ययीभावश्च" (पा०स०१-१-४१) इत्यन्नं सूज्यताम् । ततः "चादयो ऽसत्वे" (पा०सू०१-४-५७) इत्यारभ्य यावद् "अधिरीश्वरे" (पासु० १-४-९७) "विभाषा कृत्रि" (पासू०१-४-९८) इति । तत्र यस्मिन्प्रदेशे निपातग्रहणं नत्र चादिग्रहणमस्तु, अव्ययप्रदेशेऽव्ययग्रहणं वेनि। उच्यते, अव्ययसंज्ञाविरहेऽन्वर्थसंशाबललभ्यं वक्ष्यमाणप्रयोजनं न सिचेत् । निपातसंझाविरहे तु शान्तनवाचार्यप्रणातस्य "निपाता आद्युदात्ताः" ( फिसू०४-८०)इति फिटसूत्रस्य विषयविभागो न लभ्येत । अथ फिट: शिट्नबादिशब्दानामिव निपातशब्दस्याप्यन्यत एवार्थाध्यवसायः ता. व्ययसंज्ञामात्रेण निर्वाहः सुकर एवेत्यवधेयम् । ___महासंझाकरणमन्वर्थसंक्षाविज्ञानार्थ न व्येति विविध विकारं न गच्छति, सत्त्वधर्मान् लिङ्गसंख्याकारकादीन गृहातीति यावत् । तेनोपसर्जनप्रतिषेधः सिखः। अत्युच्चैसौ, अत्युच्चैस इति । अतिक्रान्तप्र. धानत्वेन सत्त्वधर्मपरिग्रहानेहाव्ययसंहा। ननु स्वरादिषूच्चैःशब्दः प. व्यते, तत्रं कथं तदन्तस्व संशति चेत ? न, अन्वर्थसंशयैव तदन्तविधेरपि ज्ञापनात् । अन्यथोपसर्जने प्रसङ्गाभावेन तन्निवृत्त्यायास्त. स्या वैयापत्तेः। तेन 'परमस्वः, 'परमोच्चैः' इत्यादौ स्वरादिप्राधान्ये. ऽव्ययत्वं सिद्धम् । अव्ययसंज्ञाया अन्वर्थत्वमाथर्वणे प्रणवविद्यायां शु. तिरपि दर्शयति
सरशं त्रिषु लिनेषु सर्वासु च विभक्तिषु ।
वचनेषु चा सर्वेषु यन्न व्येति तदव्ययम् ॥ इति ॥ पतेषु या व्येति किन्तु सहशमेकप्रकारं तव्ययमिति योजना।