________________
विधिशेषप्रकरणे अव्ययसंशाप्रकरणम् ।
इति स्यात् । उभयशब्दस्य तु नेयं विभाषा किन्तु नित्या संक्षेति गण. व्याख्याप्रसङ्गेनोपपादितम् ।
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंक्षायाम् (पा० सु०१-१-३४)। स्वमहातधनाख्यायाम् (पा०स०१-१-३५)।
अन्तरं बहिर्योगोपसंव्यानयोः (पासू०१-१-३६) । एषा त्रिसुत्री गणमध्येऽपि पठ्यते । सा च व्याख्याता। तया यस्मिन्नेवोपाधी नित्या संशा प्राप्ता तत्रैव जसि विभाषाऽनया विधीयते । पूर्वे, पूर्वाः, इत्यादि। स्वे, स्वाः, आत्मीया इत्यथः, आत्मान इति वा । इह त्रिसूत्र्यां यद्वक्तव्यं तत्सर्वं गणव्याख्यावसर एवोक्तम् । “विभाषाप्रकरणे तीयस्य ङित्सुपसं. ख्यानम्" (काभ्वा० )। द्वितीयस्मै, द्वितीयाय, इत्यादि । एकादेशस्य पूर्वान्तग्रहणेन ग्रहणाल्लिङ्गविशिष्टपरिभाषया वा द्वितीयस्यै, द्वितीयाय, इत्याद्यपि सिद्धम् । एवञ्च "विभाषा द्वितीयातृतीयाभ्याम्" (पासू०७. ३१०५)इति सूत्रं न कर्त्तव्यं भवति, अर्थवत्वात्, प्रातेपदोक्तत्वाचा "द्वेस्ती. यः"(पा०सू०५-२-५४) "ः सम्प्रसारणं च"(पासू०५-२-५५)इत्ययमेव गृह्यते । तेनेह न-"प्रकारवचने जातीय" (पासू०५-३-६९) पटुजा. तीयाय । “जात्यन्ताच्छ बन्धुनि" (पा०सू०५-४-९) ब्राह्मणजातीयाय । मुखपार्श्वशब्दाभ्यां तसन्ताभ्यां “गहादिभ्यश्च" (पा०स०४-२-१३८) इति छः, मुखतीयाय । पार्वतीयाय । तथा द्वितीयाय भागाय' इत्यत्रा. पि न भवति "पूरणाद्भागे तीयादन्" (पासू०५-३-४८) इत्यनि कते "यस्योत च' (पासू०६-४-१४८) इत्यकारलोपे च सति तीयस्य लाक्षणिकत्वादिति दिक् ॥ इति सर्वनामसंज्ञाप्रकरणम् ॥ ___ स्वरादिनिपातमव्ययम् (पा०स०१-१-३७) । स्वरादयो निपाताचा. ध्ययसंशाः स्युः । "प्राणीश्वरान्निपाताः" (पासू०१-४-५६) इत्यारभ्य "अधिरीश्वरे" (पा००१-४-९७) इत्येतत्पर्यन्तं ये वक्ष्यन्ते ते निपाताः। नन्वेवं चादिवेध स्वरादयोऽपि पठ्यन्तां, प्रकृतसूत्रं च त्यज्यताम, अव्ययप्रदेशेषु निपातशब्देनैव व्यवाहियतामिति चेत् ? न, चादीनां प्रसस्वाचिनामेष निपातसंहा। यथा “लोघं नयन्ति पशु मन्यमानाः" इत्यत्र सम्यगर्थस्य पशुशब्दस्य, न तु सत्वचिनाम् यथा “पशूस्ता. श्वके वायव्यान्" (ऋ००) इत्यादी । स्वरादीनां तु सस्ववचः नानामव्ययसंशेष्यते । "स्वस्ति वाचयति" "स्वः पश्ये" इति यथा । अथ "प्राणीश्वरान्निपाताः" "स्वरादिनि" "चादयोऽसत्त्वे" इति कुतो मसमितमिति चेतन, एवं हि सति "निपात एकाजनाका (पा००