________________
१७२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिकेरान्ते काकचोरविशेषेणानकारान्तानां प्रतिपदोक्ततृतीयासमासविरहेण चालौकिक निषेधस्य वैयर्थ्यांपत्तेः ।
द्वन्द्वे च (पा०स०१-१-३१) । इहोक्तसंज्ञा न स्यात् । पूर्वापराधरा णाम् । समुदायस्यायं निषेधो न त्ववयवानाम् । तथाहि, त्यदादीनां तावद् द्वन्द्व एव नास्ति"त्यदादीनि सर्वैर्नित्यम्"(पा०सू०१-२-७२) इत्येक शेषेण बाधितत्वात् । न च द्वन्दु कृते एकशेष इनि म्रमितव्यम्, एकष. द्भावस्वरसमासान्तप्रसङ्गेन द्वन्द्वापवादत्वपक्षस्यैव स्थापयिष्यमाण. त्वात् । अन्यथा 'तेषाम्' इत्यादावपि "द्वन्द्व च" (पा०सु०१-१-३१) इति निषेधापत्तेश्च । त्यदादिभ्यः प्राचीनास्त्वदन्ताः । तत्र काकचोरविशेषः । "सर्वनाम्नो वृत्तिमात्रे" ( भा०१० ) इति पुंवद्भावस्त्विज्यते एवदक्षिणोत्तरपूर्वाणामिति । किश्च सर्वनामसंशानिषेधेनाप्यसौ दुर्वारः । तत्र हि मात्रग्रहणं क्वचित्सर्वनामत्वेन दृष्टानां सम्प्रत्यसर्वनामत्वेऽपि पुंवद्भावार्थम् । अत एव 'दक्षिणपूर्वायै' इत्यत्र संज्ञाभावेऽपि पुंवद्भावः । नन्ववयवे सचा चेन्न निषिद्धा तर्हि 'अङ्गाधिकारे तस्य च तदुत्तरपदस्य च' (प०भा०ए०२९) इति वचनाद् 'दक्षिणोत्तरपूर्वाणाम्' इत्यादौ सुडागमादिप्रसङ्गः । न च निषेधवैयर्थ्यम् मनाङ्गस्य अलादेावृ. स्या चरितार्थत्वादिति चेत्? न, अङ्गकार्येषु सर्वनाम्नो विहितस्यामो के. सिक्योरित्यादिक्रमेण व्याख्यानात् । विहितविशेषणत्वस्याश्रयणे प्रमाणं तु 'दक्षिणोत्तरपूर्वाणाम्' इति भाष्यप्रयोग एव । तस्मात्समुदायस्यैः वाय प्रतिषेधो नावयवानामिति स्थितम् । अत एव सर्वनामसञ्ज्ञायां तदन्तविधिसद्भावे "द्वन्द्वे च" (पा०सू०१-१-३१) इति सापक. मित्युक्तम् ।
विभाषा जसि (पा०स०१-१-३२) । जसीति कार्यापेक्षयाधिकरण. सप्तमी । जसाधारं यत्कार्य शीमावाख्यं तत्र कर्तव्ये द्वन्छे उक्ता सं. शा वा स्यात् । वर्णाश्रमेतरे । वर्णाश्रमेतराः। शीभावं प्रत्येवेयं वि. भाषेति व्याख्यातम् । तेनाकच् न भवति तस्मिन्कर्तव्ये "वन्द च" (पासू०१-१-३१) इति नित्यं निषेधात् । अतस्तत्र कप्रत्यय एव भवति। वर्णाश्रमेतरकाः । केन व्यवधानानेह शीभावः अकचि छते तु तन्मध्या पतितम्यायेन शीभाषः स्यादेव ।
प्रथमचरमतयाल्पाचकतिपयनेमाश्च (पासू०१-१-३३) । एते जसः कार्य प्रति सर्वनामसळा वा स्युः । प्रथमे, प्रथमाः, इत्यादि । शेष रामवत् । नेमे, नेमाः शेषं सर्ववत् । इहापि प्राग्वच्छीमा प्रत्येव स. भाषिकल्पः । तेन 'प्रथमकाः' इत्यादापकज्ञ न । अन्यथा 'प्रथमके'