________________
विधिशेषप्रकरणे सर्वनामसंज्ञाप्रतिषेधप्रकरणम् । १७१
मा भूत् । बहुव्रीहिरेव यो बहुव्रीहिर्न स्वनिदिष्टबहुव्रीहिस्तत्रैव यथा स्यादिति । मैवम् समासग्रहणानुवृत्त्याप्युक्तार्थलाभात् उत्तरसूत्रस्य प्रत्याख्यानाच्च ।
न बहुव्रीहौ (पा०सू०१ - १ - २९ ) । बहुव्रीहौ कर्त्तव्ये सति सर्वनामसंज्ञा न स्यात् । त्वकं पिता यस्य त्वत्कपितृकः । अहकं पिता यस्य मपितृकः । द्वौ पुत्रौ यस्य द्विकपुत्रः । इह हि समासप्रवृत्तेः प्रागन्तरङ्गतयांऽकच् प्रवर्त्तेत, स च समासे सत्यपि श्रूयेत, 'अतिक्रान्तो भवकन्तर्मातिभवकान्' इतिवत् । न हि वृत्तेः प्रागप्युपसर्जनताऽस्ति । ननु यदि प्रागेव प्राप्नुवन्नकच् निवर्तितस्तर्हि 'त्वकम्पिता' इत्यादि कथं वि. गृह्यते ? स्वत्कः पितंत्यादि कप्रत्ययदर्शनौचित्यादिति चेत् ? भ्रान्तो. ऽसि । न हि यस्मिन्प्रक्रियावाक्ये उत्प्रेक्षामात्रगोचरे बहुव्रीहिसंज्ञा प्रवृत्ता सर्वनामसंज्ञा च निषिद्धा तत्प्रयुज्यते, अपरिनिष्ठितत्वात् ; किन्तु तत्सदृशं बहुव्रीहिंसंज्ञाशून्यं वाक्यान्तरमेव । यदाह कैयटः । "अ. प्रयोगसमवायि यत्प्रक्रियावाक्यं तत्रायं निषेधो न तु लौकिके, तस्य पृथगेव प्रयोगात्तादर्थ्याभावात्" इति । अत एव दृष्टाः सर्वे येनेत्येव विग्रहो न तु सर्वा इति । राशः पुरुष इत्यादिविग्रहेपि ह्यत्रैव गातेः, अलौकिके वाक्ये “अल्लोपोऽनः " ( पा०स् ६-४-१९३४) इत्यादेरप्रवृत्तेः; "अन्तरङ्गानपि विधीन्' (प०भा०५२) इति सिद्धान्तात् । अत एव 'गोमत्प्रियः' इत्यादी सोलुंगव न तु हल्ड्यादिलोपः । तेन नुम्दीर्घादयो न प्रवर्त्तन्ते । भाष्ये 'स्वकल्पितृकः' इत्याद्येव रूपं स्वीकृत्येदं सूत्रं प्रत्याख्यातम् । यदाह
अकच्स्वरौ तु कर्त्तव्यौ प्रत्यङ्गं मुक्तसंशय इति ।
अङ्गम्प्रतीति प्रत्यङ्गम् | अनकारान्तेषु त्वकल्पितृको द्विकपुत्र इत्यादिव्यकच् । विश्वप्रिय इत्यादिष्वदन्तषु तु "स्वाङ्गशिटामदन्तानाम्” (फि०स्०१-२९) इत्याद्युदात्ततेति विषयविवेको बोध्य इत्यर्थः । यथोसरं मुनीनां प्रामाण्यात् भाग्योक्त्यैव व्यवस्थेत्यवधेयम् ।
'तृतीयासमासे ( पा०सु०१-१-३०) । अत्र सर्वनामता न स्यात् । मासपूर्वाय । लक्षणप्रतिपदोकपरिभाषया " पूर्वसदृश" ( पा०सु०२१-३१) इति समासो गृह्यते, न तु "कर्तृकरणे कृता" (पा०सु०२-१-३२) इत्यादिरपि । तेन 'त्वयका: कृतं त्वकत्कृतम्' इत्यादी निषेधो न । समास इत्यनुवर्त्तमाने पुनः समासग्रहणं गौणार्थस्यापि सङ्ग्रहार्थम । तेन समासार्थवाक्येऽपि निषेधः । मासेन पूर्वाय । अयं च लौकिके वाक्ये निषेधो न तु "न बहुवीही" (पा०सु०१-१-२१) इतिवदलौकिक, मका