________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् ।
२३५
क्तिमिति तु काशिकायां प्रमादः । “अप्रत्ययात्" (पासू०३-३-१०२) इत्यनेन बाधात् । न च 'शप्तिः' इत्यादाविवेह आबादित्वकल्पनं बहुलग्रहणं वा शरणीकरणाहम् , भाग्यकारेणेव 'कण्डूया' इत्येव भवित व्यमिति वदता एतस्यापशब्दतोक्तः। तस्मादयं क्तिजेव । ततोऽल्लोप. यलोपौ । अल्लोपस्य स्थानिववादुवङ् । ततः "छवोः शू' (पा०पू० ६-४-१९) इत्यूठ । न चोठ्यपि स्थानिवत्वम् , आदिष्टादचः पूर्वत्वात् । अत एव ऊठः पुनरुवङ् न भवति । “सर्वे सर्वपदादेशाः" (भा०६०) इत्याश्रित्य स्थानिद्वारकं पूर्वत्वं यद्यपीह वक्तुं शक्यते,भाग्यमते 'लो. लुवः' 'पोपुवः' इत्यादौ यधा, तथापि स्थानिद्वारकं पूर्वत्वं क्वाचित्कमे. वेति पूर्वसूत्रे एवोक्तम् । तथा तिष्ठतेयङन्तात् क्तिच् अल्लोपयलोपयोः 'तेष्ठीति' इति स्थिते अल्लोपस्य स्थानिवत्वादियङ्, यलोपः। तेष्ठिनिः । तथा पेपीयतेः क्तिचि अल्लोपयलोपयोः “एरनेकाचः"(पा०सू०६-४-८२) इति यणि यलोपे कृते 'पेप्तिः' इति भवति । "शो तनूकरणे' यङन्तात् किचि अल्लापयलोपाऽऽल्लोपेषु "पूर्वत्रासिद्ध न' (भा०६०) इति स्था. निवत्त्वनिषेधात् "छशां षः" (पासू०८-२-३६) इति षत्वे कृते 'शाष्टिः इति भवति । एवं चेचीयतेश्चेतिरिति दिक् ।
तदेवं घरेयलोपेति नैकं निमित्तं किन्तु वे इति स्थितम् ।
कचित्तु वर्ग इति ईकारं प्रश्लिप्य ईकारे परतो विधौ न स्थानिव. दिति व्याचल्युः । तेनाऽऽमलक्याः फलमामलकम् "नित्यं वृद्धशरादि. भ्यः" (पासू०४-३-१४४) इति मयट् । “फले लुक" (पा००४-३१६३) ततो "लुक् तद्धितलुकि" (पासू०१-२-४९) इति ङीषो लुम् । स च “यस्य" (पासू०६-४-१४८) इति लोपे न स्थानिवत् । पूर्वोक्त. व्याख्याने तु "लुका लुप्तं न स्थानिवत्" इति वचनं करिष्यते । तत्र च लुप्तमिति "नपुंसके भावे का" (पासू०३-३-११४) लुङ्न स्थानिव दिति फलितोऽर्थः।
स्वरे-चिकीर्षकः । सनोऽतो लोपो "लिति" (पा०सु०६-१-१९३) इति ककारेकारस्योदात्तत्वे कर्तव्ये न स्थानिवत् । न च "लिति" (पा०४०६-१-१९३) इत्यस्यारम्भसामर्थ्यम् 'कारकः' इत्यादौ साव. काशत्वात् । भाष्ये तु 'आकर्षिकः' इत्युदाहृतं, तदापाततः, ष्ठलो लि. स्वसामर्थ्यात् स्थानिवद्भावकृतव्यवधाने सत्यपि लित्स्वरस्य सुवच. स्वात् 'नन्ति' इत्यादी कुत्ववत् ।
सवर्णानुस्वारयोः-शिण्ढि । पिण्टि । इनसोरल्लोपोऽत्र न स्थानिक पत् । मनुस्वारस्थानादिष्टादचा पूर्वत्वं तु स्थानिहारत्युतम् । यद्य
ताज्या।