________________
७० शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिकेतयान्यतममिहत्वप्रत्ययाः, प्रकृतिजन्यबोधे प्रकारीभूतत्वं, प्रयोगोपाधि. माश्रित्य तथाभूतधर्मस्य त्वतलर्थताया वक्ष्यमाणत्वात् । यद्वा, प्रकृतिः शब्दस्वरूपपरा, तत्प्रवृत्तिनिमित्तत्वे तु त्वतलादीनां शकिरेवेति म. तान्तरमपि वक्ष्यते । उभयथाऽपहि त्वप्रत्ययेन स्वार्थाश्रयः ककारो लक्यते । तेन कुत्वम् नेत्यस्य ककारादेशो नेति पर्यवसितोऽर्थः । आह च
सामान्यान्यभिधीयन्ते सत्ता वा तैर्विशेषिता।
संशाशब्दस्वरूपं वा प्रत्ययैस्त्वतलादिभिः ॥ इति । इत्थं पदविभागः पदसाधुत्वं चोकम् । वाक्यार्थस्तु संज्ञासंक्षिभा. घः । तथाहि, समानविभक्तिकनामार्थयोरभेदान्वयस्य व्युत्पन्नतयाss. कारादयो वृद्धिं प्रत्यभेदेन संसर्गेण विशेष्याः । विरूपोपस्थितिस्तु वि. शेषणीभूतं शब्दस्वरूपमादाय बोध्या । एतेन “इन्द्रो मरुत्वान्मघवा" (अ०को०१-१-४४) इत्यादि व्याख्यातम् । न तु तत्रापि मरुत्वदादिशब्दानां तत्तवाच्ये लक्षणेति ग्राह्यम्, उक्तरीत्या लक्षणां विनवोपपत्तेः । अत एवोद्भिदधिकरणे विशिष्टविधिपशं मत्वर्थलक्षणाप्रसङ्गेन दूषयित्वा नामधेयत्वं सिद्धान्तितम् । अन्यथा नामधेयत्वेऽपि लक्षणायास्तुल्यतया ऽधिकरणस्यासम्भवदुक्तिकतापत्तेरिति दिक।
स्यादेतत् । किमादैज्मात्रस्य वृद्धिसंहा माहोस्विद् वृद्धिशब्दमा• वर्त्य वृद्धिरिति ये आदचस्ते वृद्धिसंज्ञा इति व्याख्यानाल्लुकलुलुप्सं. बावत्तद्भावितानामेवेति ? नाघः, 'सर्वभासः' 'सर्वकाकः' इत्यादौ "उत्तरपदवृद्धौ सर्व च" (पा०सू०६-२-१०५) इति सूत्रेण पूर्वपदान्तोदा. तत्वप्रसङ्गात् । इष्यते तु "समासस्य" (पासू०६-१-२२३) इत्यन्तो. दांतः। न च "सर्वस्य सुंपि” (पासू०६-१-१९१) इत्याधुदात्तता शङ्ख्या सतिशिष्टेन समासस्वरेण बाधात् । सर्वस्तोम' इत्यादौ तु "बहुव्रीही प्रकृत्या पूर्वपदम्" [पा०सू०६-१] इत्यनेन समासान्तो. दात्तत्वे बाधिते “सर्वस्य सुपि” (पा०९०६-१-१९१) इति भवत्येव । इह तु कर्मधारयत्वात्समासान्तादातत्वमेवेति बोध्यम् । किश तावती मार्या यस्येति बहुव्रीही "तावदार्य न सियेत् । "वृद्धिनिमित्तस्य च तद्धितस्य' (पासू०६-३-३९) इति वद्भावप्रतिषेधप्रसङ्गात् ।
न द्वितीयः, 'शालीय 'मालीयः' इत्यादी वृखलक्षणस्य छप्रत्य. यस्यासिदिप्रसवात् । किश्चैवम् 'मानमयः 'शालमयम इत्यादी "नित्यं
यशरादिभ्य (पासू०४-३-१४४) इति नित्यो मम न स्यात् । किश 'आम्रगुप्तायनि' 'शालगुप्तायनि:'. "उदीवां वृद्धावगोत्रात्'