________________
विधिशेषप्रकरणे वृद्धिसंक्षासूत्रम् । बर्थिवाचकाः" इत्यभ्युपगमेऽपि तात्पर्य कचिदेवेत्यस्य निर्विवादत्वात् । शक्तिः परं कारणतापरपर्याया सर्वत्र दुवारेत्युक्तम । न चैवम् "अन्याय. धानेकार्थत्वम्" इत्यस्य निर्विषयता, गैरुषयसङ्केतनिरपेक्षस्य प्रसिद्ध तरसम्बन्धस्य विना प्रमाणं बहुषु न कल्पनमिति तदर्थात् । गौणमुख्य. विभागोऽपि प्रसिद्धप्रसिद्धिनिबन्धन एव । गाव्यादीनामसाधुतापि सङ्केतविरहे सत्येव । अतएव प्रसिद्धेऽपि पक्षे गोण्यादीनां गोण्यां साधुत्वमस्त्येवेत्यन्यत्र विस्तरः । उक्तंच
व्यवहाराय नियमः संक्षायाः संशिनि कचित् । नित्य एव तु सम्बन्धो डित्यादिषु गवादिवत् ।। वृद्धवादीनां च शास्त्रेऽस्मिन् शक्त्यवच्छेदलक्षणः ।
अकृत्रिमोऽभिसम्बन्धो विशेषणविशेष्यवत् ॥ इति । वस्ततस्तु साध्वसाधुबहिर्भावपक्षेऽप्येषामनुशासनविषयताऽस्त्येवे. ति पस्पशायां साधुत्वनिर्वचनप्रसङ्गेनोपपादितम् । तस्मात्सर्वथापि कुत्वं प्राप्नोत्येवेति चेत् ? सत्यम्, “अयस्मयादीनि छन्दसि” (पा०सू० १-४-२०) इति भत्वप्रवृत्त्याकुत्वोपयोगिनी पदसंज्ञा प्रतिबध्यते । ज. श्वविध्येकवाक्यतापन्ना तु पदसंज्ञाऽस्त्येव । 'ससुष्टुभा स ऋक्वता गणेन' इत्यत्र तु विपरीतम्-कुत्वे पदत्वमस्ति जश्त्वे तु नेति । विषय. भेदेन संज्ञाद्वयमस्तीत्यंशे परं दृष्टान्तता बोचा । तेन "उपदेशेजनुना. सिक इत" (पा०सू०१-३-२) इत्यादौ कुत्वाभावो जरत्वं च सिद्ध्यति । “छन्दसि विहितस्य सूत्रे कथं प्रवृत्तिः" इत्याशङ्कच, 'छन्दोवत्सूत्राणि. भवन्ति" इति भाष्यम् इटिरियं भाष्यकृतः । यद्वा, छन्दःशब्दः स्वर्यते । "स्वरितेनाधिकारः” (पा०म०१-३-११) अधिकं कार्य गौणस्यापि ग्र. हणमित्यर्थः । तेन छन्दोङ्गेष्वपि तत्तत्कार्यप्रवृत्तिर्बोध्या संज्ञाद्वयस. मावेशस्तु "उभयसंशान्यपीति वक्तव्यम्" इति वार्तिकवचनात् “षष्ठी. युक्त (पा०स०१-४-९) इति सूत्रे 'छन्दसि वा' इति विभज्य एका संक्षेति नियमस्य छन्दसि विकल्पनाद्वा । यद्वा, "अयस्मयादीनि" (पा. स.१-४-२०) इत्यनेनोभयसंज्ञाप्रयुक्तकार्यभाजः समुदाया निपात्य. न्ते, न तु प्रकृता भसंक्षैव विधीयते । अत एव कार्यविशेषपुरस्कारसम्भ. व इति बोध्यम् । तस्मात्कुत्वं नेति स्थितम् । कुशब्दस्य "अणुदित" (पासू०१-१-६९) इत्यनेन संशात्वेन विनियोगात्तत्र च प्रागुकरीत्य मतभेदसत्वाजातिविशेषः प्रवृत्तिनिमित्तम, व्यक्तिविशेषोपहिता सत्व वा, शब्दस्वरूपं वा, तस्यापि ग्राह्यत्वं ग्राहकत्वं चेति पस्पशोकरत्यिा व्यक्तिविशेषणतया भानाभ्युपगमात् । तथाचोकत्रि.