________________
६८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिकेइति वार्तिके भाष्यकारैरेव वृद्धिः आदैजिति पदविभागप्रदर्शनात् । अ. स्मिश्च पक्षे अनयोः सूत्रखण्डयोरिति नेयम् । पक्षान्तराभिप्रायकमेव वा तत् । वृद्धिशब्दस्तु तन्त्रेणावृत्त्या वा योजनीयः। "द्विर्वचनेऽचि" (पा०सू०१-१-५९) "इग्यणः सम्प्रसारणम्" (पा०सू०१-१-४५) इत्यादा. विवाभयथाऽप्यदोषात् । आदिति तपरकरणमैजथे, तेन त्रिमात्रचतुर्मात्राणामैचां संज्ञान भवतीत्यादि “एओ""ऐऔच" सूत्रयोःप्रपञ्चितम्। नचैवं तकारस्योत्तरशेषतैव स्यादिति पदान्तताविरहाज्जश्त्वं न स्यादिति वा. च्यम् , असन्देहार्यतयाऽऽकारशेषत्वस्यापि सम्भवात् । अस्तु वाऽऽदै. जिति पदम् , "ऋत इद्धातोः” (पासू०७-१-१००) इत्यादौ दपरत्व. मेवाश्रित्य तपरसूत्रे दकारोपि प्रश्लिष्यते इति "तित्स्वरितम्" (पा० सू०६-१-१८५) इति सूत्रे भाष्यकारैर्वक्ष्यमाणत्वाद् दात्परस्यापि तत्का. लग्राहकत्वात । वस्तुतस्तु दकारप्रश्लेषपक्षोऽभ्युश्चयमात्रम् । इह तु तपरकरणं स्पष्टार्थमेवेत्यादि प्रागेवोक्तं न विस्मर्त्तव्यम् ।।
ननु "चाः कुः" [पा०सू०८-२-३०] इति कुत्वमैच्छब्दे प्राप्नोति च. तुष्टयी शब्दानां प्रवृत्तिरिति पक्षेऽस्य संज्ञाशब्दतया लौकिकत्वेनानुशास. नविषयत्वात् । त्रयीपक्षेऽपि जातिशब्दत्वसम्भवात् । वैशेषिकपरिभाष या द्रव्यत्वगुणत्वादिजातिस्वीकारे वैयाकरणपरिभाषयापि तत्स्वीकारस्य दर्वारत्वात् । वस्तुतस्तु सिद्धान्ते व्यक्तिविशेषोपहितसत्ताया एव जा. तित्वस्वीकारादिहापि साऽस्तु । व्यक्तिविशेषाश्च स्वरूपसत्ता अतद्भ. देनानुगतीकृतास्सत्तोपधायकाः । तदुक्तम्-"तस्यां सर्व शब्दा व्यव. स्थिताः" इति । आद्यन्तावयवद्वारा समुदायानुकरणं ऐच् वा शब्दः । अनुकरणशब्दाश्च जातिशब्दा एव तत्रानुकार्यनिष्ठ जातेः प्रवृत्तिनिमि त्तत्वात् । न चाद्यपक्षे सूत्रवैयर्थ्यम्, मदीयशास्त्रे वृद्धिशब्देनादैच एव ग्राह्या इति नियमार्थ सूत्रारम्भात् । तदुक्तं कैयटेन-"अनेकशक्तः श. ब्दस्य शक्त्यवच्छेदेन संशिनि विनियोगानित्यत्वाच्च सर्वसंचानां लौ• किकत्वात्" इति । अनेकस्मिन्ननेका वा शक्तिरस्यति विग्रहः । अव. च्छेदकभेदेऽपि लाघवाच्छक्तिरेकैव । औपाधिको भेद इति प्रवादस्तु उपाधिभिन्न इत्यत्र पर्यवसन्न इति मतेनाऽऽद्यः पक्षः । उपाधिस्थित्यः धीनस्थितिको जीवब्रह्मभेदवदुपधेयेऽपि भेदोऽस्तीति मतेन द्वितीयः कल्पः। “न कोपधायाः" [पा०स०६-३-३७] इति पुंवद्भावनिषेधस्तु नास्ति। "तद्धितवुग्रहणं कर्तव्यम्" (कावा०) इति वक्ष्यमाणत्वात् । अवच्छेदः संकोचः । स च यद्यपि शक्तनिरवयवतया न सम्भवति तथा. पि तदितरस्मिस्तात्पर्यविरह एव शक्तिसङ्कोचाऽत्राभिमतः । “सर्वे स.