________________
विधिशेषप्रकणे वृद्धिसंक्षासूत्रम् । णो" (पा०सू०५-४-१९३) इति षचि प्रकृतेऽपि क्रियते । पचश्चित्त्व. सामाज्जायमानमन्तोदात्तत्वं बहुव्रीहित्वप्रयुक्तं पूर्वपदप्रकृतिस्वरं य. था बाधते तथा "द्वित्रिभ्यां पाइन्मूर्धसु बहुवीही" (पासू०६-२-१९७) इति विधीयमानमन्तोदात्तत्वविकल्पं मा बाधिष्टेत्येवमर्थम् । तच्च "वि. त्रिभ्याम" (पासू०६-२-४३) इत्यस्य क्वचिल्लब्धावकाशत्वे सत्येव सङ्गच्छते, न त्वन्यथा । अवकाशश्व समासान्तानामनित्यतायां सत्या. मेव लभ्यते । 'त्रिमूर्द्धानं सप्तरश्मि गृणीषे इति यथा । तस्मात्षप्रत्य. यविधानं सापकमिति स्थितम् । तथा "द्वित्रिभ्याम्" (पा०स०६-२१९७) इति सूत्रे बहुव्रीहिग्रहणमपीह सापकम् । अन्यथा 'पाहनमूषु' इत्येव निर्दिशेत् । एवं हि सति कृतसमासान्तपाहत्प्रक्रमोऽपि न विरो. स्यते । बहुव्रीहिभिन्नं च समासान्तविरहादेव वारयिष्यते।
ननु षष्ठीतत्पुरुषादिवारणाय बहुव्रीहिग्रहणमस्तु । तथाहि द्वयो. दन्ता इति विगृह्य 'द्विदतः पश्य' इति प्रयोगे "पहन" (पा०स०६-१६३) इति दतादेशः । स एवेह निरनुबन्धकत्वाद्वा गृहोत । न च ". इन्" (पासू०६-१-६३) इति सूत्रे तदन्तविधिदौर्लभ्यात्कथमेतदिति पाच्यम् "व्यङः सम्प्रसारणम्' (पासू०६-१-१३) इति सूत्रस्थपूर्वप. क्षम्यायेन "सिद्धं त्ववयवानन्यत्वात्" (भाइ०) इत्याष्टमिकमाण्यवार्तिकन्यायेन चावयवस्य कार्यलाभात । अन्यथा 'हास्तिशीD. उपैषि' इत्यादागतेरिति वक्ष्यते । तस्मात्कथं बहुव्रीहिग्रहणं झापकमिति चेत् ? न, पूर्वोत्तरसाहचर्यबलेनापि बहुव्रीह्यप्रविष्टस्य वारणसम्भवात् दतु इति सानुबन्धस्यापि सुपठत्वाच्च । "स्फिगपूतवीणाओऽध्वकुक्षि. सीरनामनाम च" (पा०स०६-२-१८७) इति सूत्रे "अपाच्च" (पासू० ६-२-१८६) इत्यनुवृत्या 'अपस्फिगम्' इत्यादावुत्तरपदान्तोदात्तविधा. यकेऽध्वशब्दग्रहणमपीह लिङ्गम् । “उपसर्गादध्वनः” (पा०सू०५-४.८५) इत्यप्रत्ययस्य नित्यत्वे हि चित्त्वादेव सिद्धं स्यात् । तथा "प्रतेरंश्वा. दयस्तत्पुरुषे” (पा०सू०६-२-११३) इति सूत्रंऽश्वादिगणे राजन्श. ब्दस्य पाठोऽपीह लिङ्गम् । अन्यथा "राजाहः सखिभ्यष्ठ" (पा०म० ५-४-९१) इति टचैव सिद्ध किन्तेन ? यत्तु "ऋपूरब्धः पथाम्" (पा० सू०५४-७४) इत्यत्र टिलोपस्येव "प्रकृतिवदनुकरणम्" (१०भा०३६) इत्यतिदेशेन प्रत्ययस्यापि प्राप्तौ तदकरणं शापकमिति । तन्न, अतिदे. शोऽयमनित्य इति ऋलक्सूत्रे प्रपञ्चितत्वादिति दिक । “कृतमनयोः सा. धुत्वम्" इत्यादिभाष्यग्रन्थाश्चास्मिन्पक्षेनुकलाः । अनयोः पदयोरिति स्वरसात् । अथवा 'आत्' इत्यसमस्तमेव "पस्पशायां शब्दाप्रतिपत्ति"