________________
६६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिके
1
तु स्वार्थमुपादीयमानत्वात्प्राधान्यम् । तेन तेषामेव संज्ञा न त्वनुबन्धानाम | "प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः " (१०मा०१०५ ) इति न्यायात् । नन्वेवमकारस्याच्संज्ञा न स्यात्, संज्ञाप्रतिपादने चकारस्येव तस्याप्यत्वाविशेषादिति चेत् ? न, “स्वं रूपम्" (पा०सू०१-१.६८) इत्यनुवृत्याऽऽदेरपि संशित्वात् । स्वं रूपं चादेरेव गृह्यते नान्त्यस्य, सर्वनाम्नां प्रधानपरामर्शकताया औत्सर्गिकत्वात् । इतेति तृतीयया इतोऽप्राधान्यलाभात् । तदेवं संज्ञाप्रवृत्तिकालेऽनुबन्धानां संनिधानमभ्युपेत्य द्वेधा समाहितम् । वस्तुतस्तु तदेव नास्तीत्याह-लोपश्वेति । बलवानेव बलवत्तरः स्वार्थे तरप् । “अल्पाच्तरम्" (पा०सू० २-२-३४) इति यथा । " हलन्त्यम्" ( पा०सू०१-३-३) इतीत्संज्ञायां हि कृतायां णकारादीनामच्संज्ञा प्राप्नोति लोपश्च । तत्र परत्वान्नित्यत्वा दन्तरङ्गत्वाच्च लोपे कृते संज्ञाप्रवृत्तिकाले णकारादीनामसत्त्वादेव तेबामजादिसंज्ञा नेति भावः । यस्मिंस्तु प्रत्याहारे योऽनुबन्धोऽपेक्षितस्तस्य वचनसामर्थ्यात्तत्प्रवृत्तेः ः प्राग् लोपाभावः । लुप्तेऽपि वा तस्मिन् भूतपूर्वेण तेन सहित आदि: संज्ञा भविष्यति । अन्तःपातिनां तु लुप्ता. नां न संज्ञा श्रूयमाणेष्विकारादिषु सावकाशत्वादिति । ननु हल्मत्याहारेऽकारस्य प्रवेशो दुर्वारः । न हि तत्र लोपो लभ्यते । ततः प्रागच्संज्ञाविरहेण "उपदेशेऽज्" (पा०सू०१-३-२ ) इतीत्संज्ञाया अप्रवृत्तेः । एवञ्चाद्यसमाधानमपि दुरुपपादम् । उदाहृतस्याचारस्य “लोपश्च बलवत्तरः" इत्यनेनैव गतार्थत्वादिति चेत् ? न, "सोऽस्यादिः " ( पा०सू० ४-२-५५) इतिनिर्देशेन प्रथमस्य गुणानां भेदकत्वेन चरमस्य च समाधानस्य सूपपादत्वादिति दिक् ॥
इति श्रीशब्द कौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादे द्वितीयमान्हिकम् ॥ २ ॥
वृद्धिरादैच् (पा०सू०१ - १ - १) आकार ऐकार औकारश्च वृद्धिसंशः स्यात् । संज्ञाप्रदेशा "वृद्धिरेचि" (वा०सू०६ - १ - ८८) इत्यादयः । तदुदाहरणमेवास्याप्युदाहरणं बोध्यम् इद्दाच्च ऐच्चे तीतरेतरयोगद्वन्द्वः "सु. पां सुलुक्" (पा०सू० :- १-३९) इति सुलुग्वा । अथवा समाहारे द्वन्द्वः । नचैवं "हन्द्वाच्चुदषहान्तात्" (पा०सू०५-४-१०६) इति टच् स्यादिति वाच्यं, समासान्तविधेरनित्यत्वात् । अत्र ज्ञापकं तु द्वित्रिभ्यां ष मूर्ध्व:" (पा०सु०५-४ -११५) इति विधानम् । नद्धि "बहुव्रीहौ सक्थ्य