________________
चतुर्दशसूत्रीस्थानुबन्धानां प्रत्याहारेखूपयोगः। ६५ शकारः षड्भ्यः -"भो भगो अघो अपूर्वस्य योऽशि" (पा००/३-१७) "हशि च" (पासू०६-१-११४) "नेड्वशि कृति" (पासू०७:२-८) "झलां जश् झशि" (पासू०८-४-५३) "एकाचो बशो भष्" (पा००८-२-३७) ___ लकारोपि षड्भ्यः - "अलोऽन्त्यस्य" (पासू०१-१-५२) "हलि स. वेषाम्" (पासू०८-३-२२) "इड् बलादेः" (पासू०ए०७-२-३५) "रलो न्युपधाa" (पासू०१-२-२६) "झलां जश्" (पा०सू०८-४-५३) "शल गुपधाद्' (पासू०३-१-४५) इति ।
अयं च चतुर्दशसुत्रीस्थैर्हल्भिरिद्भिः सम्पन्नानामष्टाध्याय्यां व्यव. हतानां प्रत्याहाराणां संग्रहः। तेन सुप्तिङादे रप्रत्याहारस्य "अमन्ता. हुः" (उन्सू०१-११९) इत्युणादिषु व्यवहृतस्य अम्प्रत्याहारस्य "यमि. अमन्तेम्वनिडेक इप्यते" इति व्याघ्रभूतिना व्यवहतस्य च "चयो द्वि. तीयाः शरि पौष्करसादेः" (कावा०) इति वार्तिककृता व्यवहतस्य चयप्रत्याहारस्य चाधिक्येऽप्यदोषः । संख्यानियमश्चायमत्तरत्र एकच. स्वारिंशद्भिर्व्यवहारादध्यवसीयते इति बोध्यम् । अत्र श्लोकधार्तिकमप्रत्याहारेऽनुबन्धानां कथमग्रहणेषु न ।
आचारादप्रधानत्वाल्लोपश्च बलवत्तरः॥ प्रत्याहारोऽक्षरसमाम्नायः । तत्र येनुबन्धास्तेषामग्रहणेष्वित्युप. लक्षणम् । अजादिप्रत्याहारग्रहणेषु । कथं नेति । 'ग्रहणम्' इति शेषः। "आदिरन्त्येन" (पा०स०१-१-७१) इति सूत्रेण हि अकारमारभ्याss. चकाराद्वर्णानां भवन्त्यच्संज्ञा मध्यस्थत्वाविशेषादिकारादीनामिव ण. कारककारङकाराणामपि स्यात् । ततश्च 'दधि-णकारः''दधि-ककारः' 'दधि-उकारः' इत्यादौ यण् स्यात् । एवमग्रहणे चकारस्यापि ग्रह। णाद् 'रुचीनाम्' इत्यादौ "अड्व्यवाये” इति णत्वं स्यात् । एवमिणग्र. हणेन चकारग्रहणाद् 'रुचिर्व' इत्यादौ "विभाषेटः'(पासू०८-३-७९) इति ढः स्यादिति पूर्वपक्षः पूर्वार्द्धस्यार्थः । __उत्तरमाह-आचारादिति । आचारोऽत्र सूत्रकृतो निर्देशः । “उ. णादयो बहुलम्" (पासू०३-३-१) "तृषिमृषिकृशेः" (पा०सू०१-२-२५) "ङसिङसोच" (पा०सू०६-१०-११०) इत्यादौ यणोऽकृतत्वान्मध्यस्थानामप्यनुबन्धानां संशित्वं नेति शाप्यते इत्यर्थः । समाधानान्तरमाहअप्रधानत्वादिति । अणिन्यादिसंशाः प्रणेतुं तद्रूपप्रतिपादनायानुबन्धा उच्चार्यन्ते । ततश्च परार्थमुपादीयमानतया तेषामप्राधान्यम् । इतरेषां
शब्द. प्रथम. 5.