________________
६४ शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिके[पा०सू०८-२-३६] इति षत्वं दुर्षारम । न च णिलोपस्य स्थानिवस्वम् 'प(१)दान्तविधी न' इति निषेधात् “पूर्वत्रासिद्ध न" [भा०६०] इति निषेधाच । तस्मानायं वृश्चतिरपि तु वेतिर्वातिर्वा, वृक्षं वेतीति वृक्षवीः वृक्षं पातीति वृक्षवाः । वृक्षव्यं वृक्षवां पाऽऽचष्टे वृक्ष, विच्, न तु किए जनसमात्, को विधि प्रति स्थानिवत्वनिषेधात् । तथा व देघयतेः 'वयुः' इति सिद्धान्तितम् । न चैषमपि “लोपो न्योः" [पा० मू०६-१-७६] इत्यस्य प्रसङ्ग स्थानिषत्वात् । न च पदान्तविधित्वम् , पदान्तविधीयते इत्यर्थात, लोपस्य चानवयवत्वात् । विभावितं चेदं "भो भगो" [पासू०८-२-१७] इति सूत्रे कैयटेनेति दिक्त ___ यत्तु "हलि सर्वेषाम्" (पासू०८-३-२२) इति सूत्रे हरदत्तेनोक्तम्"वृक्षद् करोतीत्येवं रूपः प्रयोगो नास्त्येव, अनभिधानात् । लणसूत्रे "न पदान्ता हलोणः सन्ति" (भा०१०) इति भाग्यकारोक्तश्चानमिधानं निश्चीयते इति, तच्चिन्त्यम् लण्सत्रभाष्ये "न पदान्ताः परेऽणः स. न्ति" इति पाठात् अप्रगृह्यस्येति पर्युदासाश्रयणेनाचामेव कार्यभावा. दितरे कार्यभाजो न सन्तीत्येवंपरतया कैयटेन तद्विवरणाच, "ननु चायमस्ति कर्तृ" इत्युत्तरभाष्येणास्य दृषितत्वाच्च, त्वदुदाहतपाठे उत्तरभाग्यस्योक्किसम्भवालाभाच्च । अत एव "मो भगो" (पासू०८२-१७) इतिसूत्रे भाष्यकारवृत्तिकारादिभिः सर्वैरपि 'वृक्ष' इत्युदा. हृतम् । स्वयमपीह तथैवोदाहृतमिति पूर्वापरस्वग्रन्थविरोधो भाष्यवृ. त्तिकैयटादिसकलमहाग्रन्थविरोधो मूलयुक्त्यभावश्चेति तिष्ठतु तावत् ।
प्रकृतमनुसरामः। मकारोऽपि त्रिभ्यो ग्राह्यः-"पुमः खय्यम्परे" (पासू०८-३-६) "हलो यमा यमि लोपः” (पासू०८-४-६४) "ङमो हस्वादचि" (पासू०८-३-१२) इति ।
चकारश्चतुर्यः-"इकोयणचि" (पासु०६-१-७७) "इच एकाचो ऽम" (पासू०६-३-६८) "एचोऽयवायावः" (पा०सू०६-१-७८) "पूर्वी तु ताभ्यामच्” (पा०सु०७-३-३) इति । ___ यकारोऽपि चतुर्य:-"अनुस्वारस्य ययि" (पासू०८-४-४५) "मय उः" (पासू०८-३-३३) "झयो होऽन्यतरस्याम्" (पा०स०८-४-६२) "पुमः खयि" (पा००८-३-६) इति ।
रः पञ्चभ्यः-"यरोनुनासिके" (पासू०८-४-४५) "झरो झरि स. वर्णे" (पासू०८-२-३९) "खरिच" (पासू०८-४-५५) "अभ्यासे च. च" (पासू०८-४-५४) "वा शरि" (पासू०८-३-३६)।
(१) " न पदान्त" (पासू०१-१-५८) इति सूत्रेण ।