________________
विधिशेषप्रकरणे वृद्धिसंक्षासूत्रम् । (पा०स०४-१-१५७) इति वृद्धलक्षणः फिञ्ज स्यात् । ननु "प्राचाम: द्वात्फिन् बहुलम्' (पा०म०४-१-१६०) इति फिनाऽप्येतत्सिद्धम् । नह्यत्र फिफिनोः स्वरे रूपे वा विशेषोऽस्ति "नित्यादिनित्यम्" (पासू०६-१-१९७) इत्याधुदात्तस्योभयत्राविशिष्टत्वात् । न च 'आम्र. गुप्तायनीभार्यः' इत्यत्र "वृद्धिनिमित्तस्य च तद्धितस्यारकविकारे" (पासू०६-३-३९) इति पुंवद्भावप्रतिषेधसिद्धये फिञव कर्तव्य इति वाच्यम् "जातेश्व" (पा०सू०६-३-४१) इत्यनेनापि प्रतिषेधसिद्धः । न चाम्रगुप्तायनेश्छात्रा इति वृद्धाच्छे विवक्षिते “फक्फिओरन्यतरस्याम्". (पा०स०४-१-९१) इति लुग्विकल्पेन 'आम्रगुप्तीया, 'आम्रगुप्तायनीया" इति द्वैरुप्यमिष्टं, तच्च फित्रं विना न सिध्यतीति वाच्यम् “फक्फि. मो” (पासू०४-१-९१) इत्यत्र यूनीत्यनुवृत्या त्वदुदाहृतरूपयस्य सिद्धान्तेऽप्यसम्मतत्वात् । अत एव तत्र यून्येवादाहृतम् । यस्कस्या. पत्यम् “शिवादिभ्योऽण्" (पा.सू०४-१-११२) यास्कः, तस्यापत्यं युवा "अणो दुव्यचः” (पासू०४-१-१५६) इति फिञ्यास्कायनिः, तस्य छात्राः 'यास्कीया' 'यास्कायनीयाः, इति तस्मारिफनाऽपि सिद्धौ किमर्थ फिओवेष्यते इति चेत् ? उच्यते, उक्तरीत्या रूपसिद्धावपि प्रा. चामुदीचां वाचार्याणां स्वस्वमतप्रच्युतिरेव तावदोषः । सिद्धान्ते ड्युः दीचाम् । 'आम्रगुप्तायनिः' इष्टः, प्राचां त्वनिष्टः । उक्तरीत्या तूदीचां न सिचेत् , प्राचां तु सिध्येदिति स्पष्ट एवोभयोरपि स्वमतप्रच्यवः । तथा च "ऋतो भारद्वाजस्य" (पासू०७-२-६३) इति सूत्रे 'जहर्थ' इत्यादौ गुणे रपरत्वे च कृते ऽनजन्तत्वाद् "अचस्तास्वत्" (पासू० ७-२-६१) इत्यस्याप्राप्तौ नियमानुपपत्तेः "ऋतो भारद्वाजस्य" (पा०सू० ७-२-६३) इतीदं विधायकं स्यात्ततश्च 'पेचिथ' इत्यादाविण्न स्यादिति दूषणे प्राप्ते "अचस्तास्वत्थल्यानिटो नित्यं भारद्वाजस्य । उपदेशे त्वतः, भारद्वाजस्येत्येव । ततः-ऋतः, भारद्वाजस्येति निवृत्तम् । एवञ्च स. कललक्ष्यप्रसिद्धि" इति सत्रभङ्गेन समाधाय भाष्यकारो वक्ष्यति-"सि. ध्यत्येवम् । अयं तु भारद्वाजः स्वस्मान्मतात्प्रच्यावितो भवति" इति । अत एव "अचस्तास्वत्" (पा०स०७-२-६१) इत्यत्र "उपदेशेऽत्वतः" (पा०स०७-२-६२) इत्येतदुपदेशग्रहणमपकृष्य सिद्धान्तयिष्यतीति दिक् । किञ्च फिनि सत्याम्रगुप्तायनेरपत्यं कुत्सितमित्यर्थे सौवीरगोत्रे "फेश्छच" (पा०सू०४-१-१४९) इति छठको न स्याताम् । तत्र फित्रेव गृह्यते न तु फिन् वृद्धादित्यधिकारादिति स्थितम् । ततश्च 'आम्रगुप्ता. यनीयः' 'आम्रगुप्तायनिकः' इति न स्यात् । न च ।