________________
विधिशेषप्रकरणे गुणवृद्धिानषेधसूत्रम् । १०३ कृतम् । आतः स्थाने योऽकार इत्यनुद्यमानस्य विशेषणे आत इस्यस्मिन् “षष्ठी स्थाने योगा" [पासू०१-१-४९) इति परि भाषाया अप्रवृत्तेः । “गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात्स्या. त्" [जैसू०३।१।२२) इति न्यायोप्यत्रानुसन्धेयः। ननु तीनेनैव न्यायेन द्धितीत्येतत्प्रधानभूतक्रियया सम्बध्यतां न तु तच्छेषभूताभ्यां गुणवृद्धिभ्यां, प्रधानान्वयस्य सम्भवतस्यागायोगादिति चेत् ? न, यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति तत्रात्मनोऽपि संस्कारमनुभूय प्रधानेन सम्बध्यते । यथा पानीयमेलादिसंस्कृतं पुरु षेण । उक्तश्च
गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते ।
प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥ इति ॥ इह गुणवृद्ध्योः ङिद्रहणेन विशेषितयोःप्रधानस्य महानुपकारो भवति व्यवहितस्यापि प्रतिषेधसिद्धः। कोः कित्करणश्चात्र ज्ञापकम् । अन्यथा प्रधानेनैवान्वये निर्दिष्टपरिभाषायाश्चोपस्थितौ सत्यां व्यवहिते निषेध. स्याप्रवृत्ती व्यर्थमेव कोः कित्त्वं स्यात । तस्माद्यथाव्याख्यानमेव साधु । ननुन यदीयं परसप्तमी तर्हि शचङन्ते दोषः लघूपधलक्षणगुणप्राप्तेरिति चेत्?न, अन्तरङ्गत्वादियकुवप्रवृत्तेः। "धिधारणे" (धा०स०१२६) 'रिपि गतो"[धा०स०१२४६१२९) तुदादयः, धियति रियति पियति। "णिश्रि भ्यः कर्तरि चङ्” (पासू०३-१-४८) अशिश्रियत, अदुवत् असुनुवत् इह तिपमाश्रित्य प्राप्तो गुणो बहिरङ्गःशचङाश्रयावियङवङावन्तरङ्गी। त. दुक्तम् "शचङन्तस्यान्तरङ्गलक्षणत्वात्" इति। (का०वा०)"मृजेरजादौ सं. क्रमे वृद्धिर्वेष्यते"इति काशिकायाम्। इदश्च "इको गुणवृद्धी"(पासू०११.३)इतिसूत्रप्रसङ्गद्वियाकरणान्तरमतत्वेनोक्तंभाच्य। अस्यार्थ:-संक्रामतो गुणवृद्धी अस्मादिति व्युत्पत्या गुणवृद्धिप्रतिषेधनिमित्तभूतः डिप्रत्ययो. ऽत्र संक्रमशब्देनोच्यते, योगरूढेः। तेन 'मरीमृजः' इत्यत्र धात्वंशलोपनिमित्ततया वृद्धिप्रतिषधहेतावप्यच्प्रत्यये नासौ विकल्पः प्रवर्तत इत्यव. धेयम । अत एव "कृङित्यचिवा" इति वचनं तत्र भाष्ये कृतम् । मृजः न्ति, मार्जन्ति । अत्र हरदत्त:-अचीत्युच्यमानेऽपि “यस्मिन्विधिस्तदादावल्महणे" (प०भा०३३) इति सिद्धे आदिग्रहणं मुख्याजादिग्रह ‘णार्थम् । व्यपदेशिवद्भावेनाजादौ 'यूयं ममृज' 'त्वया ममृजे' इत्यादी न भवतीति । तश्चिन्त्यम, मुख्याजादिपरिग्रहे प्रमाणाभावात् । न हि माज्ये आदिग्रहणं कृतं येन त्वदुतार्थों लभ्येत, किन्तु "ङित्यचि धा" .इति वचनं पठितम् । यत्तु ततः प्रागुक्कं भाष्ये "इहान्ये वैयाकरणा मृजे.