________________
१०४ शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिकेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते' इति, तत्तु तदादिपरिभाषाबल. लब्धवाक्यार्थानुवादमा न तु परकीयविधिवाक्यशरीरमिदं, येन त्व. दुक्कमर्थ शापयेत् । अत एवायो 'मृजा' इति भिदादिपाठाद गणपा. ठादेव वृध्यभाव इत्याह । अत एव रक्षितेनापि धातुप्रदीपे 'तुन्दपरि मृजः' तुन्दपरिमार्जः' इत्युभयं दर्शितम् । दुर्घटवृत्तौ तु 'तुन्दपरिमृजः' इत्यत्र व्यवस्थितविभाषया नृद्धिर्नेत्युक्तम् । अत एव धातुवृत्तिषु 'यूयं ममृज, ममाज' इति रूपद्वयमुदाहृतम् । यत्तु मुख्याजादिग्रहणवादि. नोऽपि मते ऽत्र वृद्धिविकल्पो दुर्वार एव । तथाहि, मध्यमपुरुषबहुवच. नस्य यस्य "परस्मैपदानाम्" (पासू०३-४-८२) इति सूत्रेण विधीय मानोऽकारादेशोऽलोन्त्यस्य प्राप्नोति । न चैवं विधिवैयर्थ्यम्, णलादी नां यथासंख्यसम्पादनेन चरितार्थवादित्याशय भाज्यएव वेधा समा. धास्यति-अकारद्वयात्मकोऽयमनेकालत्वात्सर्वादेशः। यद्वा, "धातोः" (पा०सू०३-१-९१) इत्यधिकाराद् "आदेः परस्य" (पासू०१-१-५४) इति थकारमात्रस्याकार इति । तत्र पक्षद्वयेपि "अतो गुणे” (पा००६१-९७) इति पररूपस्य "अचः परस्मिन्" (पासु०१-१-५७) इति स्था. निवद्भावामुख्याजादित्वमप्यस्त्येवेति कैश्चिद्धरदत्तमिश्रमते दूषणमु. क्तम् । तत्र, "आद्यन्तवद्" (पा०स०१-१-२१) इत्यतिदेश इव स्थानिव. द्भावेऽपि मुख्यत्वाभावस्य सुवचत्वादिति दिक् ।
स्यादेतत्, 'अचिनोत्' 'अमार्ट' इत्यादौ स्थानिवद्भावेन तिपो डित्वात् "ङिति च" (पा०स०१-१-५) इति . गुणवृद्धिनिषेधः स्यात् । न चाल्विधित्वात्स्थानिवद्भावासम्भवः अनुबन्धकार्यध्वनः ल्विधाविति निषेधस्याप्रवृत्तेः । अन्यथा 'अचिनवम्' 'अमाजम्' इ. इत्यादावपित्त्वेन "सार्वधातुकमपित्" (पा०सु०१-२-४) इति डिस्वाप. त्तेः । इह च शापकं "न ल्यपि'' (पा०सू०६-४-६९) इति सूत्रम् । अन्य. था ल्यपः कित्त्वाभावादेवत्वाप्राप्तौ किन्तनिषेधार्थेन सूत्रेण? यत्तु "सह्य पिच" [पा०सू०३-४-२७] इत्यपिद्वचनं झापकमिति । तन्न, "शृणीहि वि. श्वतः प्रति" इत्यादौ स्थानेन्तरतमपरिभाषया पित्त्वादनुदात्तस्य सि. पः स्थानेऽनुदात्तस्यैव हेः प्राप्तावुदात्तसम्पादनेन चरितार्थत्वात् । अ. पित्त्वसामाद्धि तत्रान्तरतमपरिभाषा बाध्यते । प्रतिपतिलाघवार्थ मुदात्त इति वक्तव्ये ऽपिद्वचनं शापकमिति वाऽस्तु । न्यायसिद्धोऽप्यय. मर्थः, अनुबन्धानामनेकान्तत्वेन स्थानिकोटावप्रविष्टतया स्थान्यलाश्रयविधिविषयकस्य "अनल्विधौ" (पासू०ए०१-१-५६) इति निषेधस्याप्रवृत्तेः, "अनुबन्धा एकान्ताः" (प०भा०५) इनि रोऽपि