________________
विधिशेषप्रकरणे गुणवृद्धिनिषेधसूचन् । १०५ स्थानित्वप्रतीतेः प्रागेवातरशेण लोपेन तेषामपहारात् । तस्मालडा. शादेशानां तिबादीनां स्थानिवद्भावेन ङित्वं दुर्वारमिति । __अत्राहु:-"यासुद् परस्मैपदेषु" (पा०सू०३-४-१०३) इति सूत्रेलि. द्वचनं सापकं-लादेशानां स्थानिवद्भावेन ङित्त्वन्न भवतीति । तथाच वार्तिकम्-"लकारस्य जित्वादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेद्यासु. टो जिवचनासिद्धम्" इति । ननु 'स्तुयात' इत्यादावनिग्लक्षणवृद्धि प्रतिषेधार्थ 'चिनुयुः' इत्यादौ "जुसिच" (पा०९०७-२-८३) इत्यस्य प्रतिषेधार्थञ्च यासुटो ङित्वमस्तु । "उतो वृद्धिलकि हलि" (पासू० ७-३-८९) इत्यत्र त्धुत इति निर्दिष्टस्थानिकतयेक्परिभाषा नोपतिष्ठते । "जुसि च" (पा०सु०७-२-८३) इति तु "क्ङिति च" (पासू०१-१-५) इत्यस्यापवाद एव । तथाच स्थानिवद्भावलब्धं ङित्वं 'स्तुयात् ' 'चिनु. युः' इत्यत्र वृद्धिगुणौ निषेधुं नालम् । पुनर्डिस्वसामर्थ्यात्तु तदुभय. निषेधो भविष्यति । तथाच वृद्धिगुणनिषधे चरितार्थ यासुटो ङित्वङ्कथं लादेशेषु लाश्रयङित्त्वस्य विरहं ज्ञापयदिति चेत् ? उच्यते, "उत औ. त" इति वक्तव्ये वृद्धिग्रहणं संक्षापूर्वको विधिरनित्यो यथा स्थादित्येव. मर्थम् । तेन 'स्तुयात् ' इत्यत्र न वृद्धिः, तथा 'चिनुयुः' इत्यत्र न गुणः "क्सस्याचि" (पासू०७-३-८२) इत्यतोऽचीत्यनुवाजादौ जुसि गु. णविधानात् । “मिदेर्गुणोऽजुसि च" इत्यकारं प्रश्लिष्याच्चासावुस् चे. ति कर्मधारयाश्रयणेनाजादावुसि गुणविधानाश्रयणे तु 'चक्रुः 'जन्हु' इत्यादावतिप्रसङ्गः।
गुणेति लुप्तविभकिकमुजुसीति च च्छेदः । उकारादौ जुसीति चा. थः । “जुसि गुणे यासुप्रतिषेधः” (कावा०) इति वार्तिकमप्युक्तरीत्या सिद्धार्थकथनपरमिति तावद्वार्तिककारस्य हृदयम् । ___ भाष्यकारमते तु "सार्वधातुकमपित्" (पासू०१-२-४) इति सूत्रे पिदिति योगं विभज्य डिदिति चानुवावृत्तिश्चाश्रित्य ङिच्च पिन पिच जिन भवतीति वाक्यार्थद्वयं वर्ण्यते । इदश्च “हलः श्नः" (पा०सू०३-१८३)इति सूत्रे भाग्ये स्पष्टम् । तेन'ब्रूतात्' इत्यत्र ब्रुव ईण्न तातङ औपदे. शिकडित्वनान्तरलेणातिदेशिकस्य बहिरङ्गस्य पित्वस्य बाधात् , 'अति. विष्टादुपदिष्ट बलीयः' इति न्यायात । 'अचिनोत्' इत्यादौ त्वौपदेशि. केन तिबादीनां पित्वेन लाश्रयमातिदेशिकं डिम्त्वम्बाध्यते । तेन गुणा. दिसिद्धिः। अस्मिश्च पक्षे यासुटो ङित्ववचनं न शापकं किन्तु 'मृज्या. त्' इत्यादावप्राप्तङित्वविधायकम् । तेन च पित्त्वस्य 'चिनोति' इत्यादौ सावकाशस्य वाधः । अतः 'स्तुयात्' इत्यादौ पिति हलीति विधीय.