________________
१३०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाह्निके
चतुर्थीबहुवचनस्य स्थाने "सुपां सुलुक" (पा०सू०७-१-३९) इति सूत्रेण शे आदेशः । शित्त्वात् सर्वादेशः।"शेषे लोपः” (पासू०७-२-९०) न युष्मे वाजबन्धवः । युष्मास्वित्यर्थः । अत्र पदपाठकाले 'युग्मे' इत्यु. दाहरणं बोध्यम् । संहितायान्त्वचपरत्वाभावेन सत्यसति वा प्रगृत्यत्वे विशेषालाभात् । एवं 'स्वेरायः सुदुघास्ते ह्यश्वाः' इत्यादीनामपि पदपाठ. काले उदाहरणत्वं बोध्यम् । “लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहः णम् (प०भा०११४)। तेनेह न–'काशे' 'कुशे' 'वशे' 'हरिशे' 'बभ्रुशे'। हरि बरु आभ्यां लोमादित्त्वाच्छप्रत्ययः । ततः सप्तम्येकवचनम् ॥
निपात एकाजनाङ् (पा०सू०१-१-१४) । एकोऽज निपात आभिन्नः प्रगृह्यः स्यात् । अ निषेधाधिक्षेपयोः, 'अ अवद्यम्' । इ विस्मये, इ इन्द्रः' उ जुगुप्सासंतापान्वर्याप्यर्थेषु 'उ उमेशः । एकाजिति कर्मधारयः वर्ति. पदार्थप्राधान्येनान्तरङ्गत्वात् "व्याहरति मृगः" (पासू०१-३-८३) इत्या. दिनिर्देशाच्च । तेनेह-प्रेदं ब्रह्मवृत्रतूर्येवाविथ' 'प्रेद्धः' इत्यादि । __ स्यादेतत्, यद्ययं कर्मधारयस्तर्हि एकग्रहणं व्यर्थम् । निपातो योऽ. च इत्येतावतैवाभिमतसिद्धेः। न च विपरीतविशेषणविशेष्यमावेनाज. न्तो यो निपात इत्यर्थः स्याद्विशेषणेन तदन्तविधेरिति वाच्यम्, तथासति व्यावालाभेन विशेषणवैयऱ्यांपत्तेः। न च हलन्तं व्यावय॑म् , तस्य सज्ञायां सत्यामपि बाधकाभावात् । न च 'पुरोऽस्ति' इत्यादौ हलन्तस्य संज्ञायां सत्यां प्रकृतिभावाद्रो रुत्वं न स्यादिति वाच्यम् प्रगृहा. सज्ञां प्रति रुत्वस्यासिद्धतया दोषाभावात् । न च सान्तस्य कृता प्रगृ हसझा एकदेशविकृतस्यानन्यतया रेफान्तस्यापि स्यादेवेति प्रकृतिभाव. प्रसङ्गस्तदवस्थ पवेति वाच्यम्, प्रगृह्यसञ्जां प्रतीव प्रकृतिभावं प्रत्यपि रुत्वस्यासिद्धत्वात् । सकारान्तस्य तु न किञ्चिदपि सिद्धकाण्डस्थं प्राप्नोति यत्प्रकृतिभावेन व्यावयेत । तस्मादचा निपातस्य विशेषणे अज्ग्रहणं व्यर्थमेव स्यादिति सुष्ठूक्तम् । नन्वजन्तस्यैव यथा स्यादज्मा. अस्य मा भूदित्येवमथै विशेषणं किन्न स्यादिति चेत् ? न, व्यपदेशिव. द्भावेन तस्याप्यजन्तत्वानपायात् । विशेषणसामर्थ्याद्यपदेशिवद्भावो न प्रवर्तते इति चेत् ? न, तदन्तविधिपरित्यागेनापि तत्सार्थक्यस्य सुव चत्वात् । तथाप्यन्यतरपरित्यागे आवश्यकं विनिगमकं किमिति चेदाङ्ग्रहणमेवेत्यवेहि । तद्धि व्यपदेशिवद्भावमात्रबाधे व्यर्थ स्यात्' तस्मादचो विशेषणत्वेनाशाहणाशापकात्तदन्तविधिन । अचो वि. शेष्यत्वे तु सुतयं तदन्तविधिरिति । उभयथाऽप्येकग्रहणं व्यर्थमेवे. ति स्थितम् । नन्धसमुदायनिवृस्यर्थमेकरहणमस्तु ।'भाउ अपेहि' इति