________________
विधिशेषप्रकरणे प्रगृह्यसंज्ञासूत्रम् । १३१ समुदायस्यैव संशा स्यानावयवानामेकाद्विर्वचनन्यायादिति. चरम. स्यैव प्रकृतिभावः स्यान्न तु पूर्वयोरिति । मैवम्, अजित्येकत्वस्य विवक्षयैव समुदायनिराससम्भवात् । अत्राह भाग्यकार:--अचसमु. दायग्रहणशङ्कानिरासार्थमेकग्रहणं कुर्वन् शापयति वर्णग्रहणेषु व्य. क्तिसङ्ख्या न विवक्ष्यते किन्तु जातिरेव निर्दिश्यते इति । तेन "दम्भेर्हल्ग्रहणस्य जातिवाचकत्वारिसद्धम्" इति वार्तिककृता व. क्ष्यमाणं सूत्रेणैव शापितं भवति । दम्भेः सिद्धमित्यन्वयः । अत्र हेतुहल्पहणस्य जातिवाचकत्वादिति । तेन दम्भेः सनि कृते "सनीवन्त" (पा०सू०७-२-४९) इति विकल्पादिडभावे "दम्भ इच्च" (पासू-७-४५६) इतीदीतोः कृतयोः “अत्र लोपोऽभ्यासस्य" (पा०सू०७-४-५८). त्यभ्यासलोपे "हलन्ताच्च" (पा०सू०१-२.-१०) इति सनः कित्वाबलोपे भभावे च कृते 'धिप्सति' 'धीप्सति' इति रूपवयं सिद्ध्यति । हल्मह. णस्य व्यक्तिपरत्वे तु योऽत्रेकः समीपो हल नकारो न ततः परः सन् , यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्वं न स्यात् । तथा "तुंहू हिंसायां' (तु०प०१२१५) तुदादिः, ऊदित्वादिद् वा तितुंहिषति तितृक्षतीति स्यादिति दिक् । . स्यादेतत, 'अउ अपेहि' इत्यत्र एकाधिर्वचनन्यायोपन्यासोन युक्तः समुदायसखंयाऽवयवानामननुग्रहात् । अत एव हि निलायात्' 'निर्लेयात्' इत्यादी बहूनां सन्निपाते वयोः संज्ञा स्वीकृता । नापि नि. पातग्रहणेन ग्रहणमेकैकस्मिन्निपाते, संक्षाविधानसम्भवात् । सत्यम, एकाउसमुदायग्रहणशङ्कामात्रं तु स्यादेव । तन्निरासायैव क्रियमाणमेकग्रहणं प्रागुक्तमर्थ शापयति । वस्तुतस्त्वपृक्तसंज्ञायामेकग्रहणमुक्तार्थे ज्ञापकमित्याश्रित्य प्रकृतसूत्रे एकग्रहणस्य परित्याग एव ज्यायान् । निपात इति किम् ? चकारात्र । तथा अततेर्ड: आ, हे आगच्छ' इत्य. पि प्रत्युदाहरणम् । आङनाङोयवस्थामाह भाष्यकार:
ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः ।
एतमातं तिं विद्याद्वाक्यस्मरणयोरडित् ॥ इति ॥ इह एतच्छन्देन पूर्वमनिर्दिष्टत्वादेतमित्यस्यैनादेशो न कृत इति कश्चित् । तन,-अन्वादेशश्च कयितानुकथनमात्रं न विदमेव कथि. तस्येदमाऽनुकथनमिति भाष्यकृता वक्ष्यमाणत्वात् । तस्माद्यत् किञ्चिति. धाय वाक्यान्तरेणान्यदुपदिश्यते सोऽन्वादेशः । इह तु ईषदर्थादौ यो वर्तते इति वृत्तिन विधेया, किन्तु परिचायकतामात्रेणोपात्ताः । अतो नैनादेशः । एतेन